SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-७सर्गः] बालभारतम् । दोलासु कौतुकवनीपृथुकर्णपाश___ लोलासु कुण्डलितुमीषुरुदारभासः ॥ ६२ ॥ भर्ताधिरोपयति यावदुदञ्च्य दोा ___ तावद्वधूरधिरुरोह रयेण दोलाम् । अभ्यस्तनित्यपुरुषायितलाघवानि श्रोणिस्तनोन्नतिनताप्यभिदर्शयन्ती ॥ १३ ॥ प्रेढोलने परिवृढेन कुतूहलेन काप्यध्यरोषि रमणी समुदस्य दोाम् । दूरास्त्रपातबलसंभ्रमभाजि यन्त्रे शस्त्रं जगत्रयजितेव मनोभवेन ॥ ६४ ॥ दोलाधिरोहपरयापरया प्रियस्य __ पृष्ठे न्यधीयत पदं यदलक्तकाङ्कम् । पञ्चाङ्गुलीपरिचितेन स तेन पृष्ठ रङ्गन्निषङ्ग इव पञ्चशरो विरेजे ॥ १५ ॥ दोलाधिरोपकृतये रभसादुदस्य न्कोऽपि प्रियां कृशतरो दरबद्धमुष्टिः । त्रासातुरं स्मरजितापि मृणालधन्वा नन्वात्तवज्रजयशक्तिरिवाशशङ्के ॥ ६६ ॥ दोलास्पृशां मृगदृशां वदनानि रेजु दण्डावलम्बनतबाहुयुगान्तराले । सद्यो मृणालजनितेषु शरासनेषु बाणीकृतानि नलिनानि मनोभुवेव ॥ ६७ ॥ किंचिन्नतस्फुरितपृष्ठतताग्रपादं ___ लोलालकं रणितपुरकङ्कणादि । नृत्यन्नितम्बमुपविष्टरतानि दोला लीलायितं स्मरयति स्म नितम्बिनीनाम् ॥ ६८ ॥ १. 'चाङ्ग' ग. २. 'कङ्कणनपुराणि' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy