SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। पुष्पाणि जिघ्रति मुहुर्मधुपीभुजंगः कामेन नुन्न इव बाणपरीक्षणाय ॥ ४३ ॥ सद्यो वसन्तभरफुल्लितफुल्लमल्ली संभारसौरभमिलत्पवने वनेऽस्मिन् । कुन्तीतनूज ननु जन्म च जीवितं च रागेण नागरजनस्य कृतार्थयावः ॥ ४४ ॥ इत्युक्तिसंमदवशीकृतचित्तवृत्ती कृष्णार्जुनौ परिजनेन समं समन्तात् । तौ निशातुः सफलतां वनमण्डलानि __ लीलारसेन मधुना मधुरीकृतानि ॥ ४५ ॥ खेलाय खाण्डववनाय ततो युवान श्चेलमधूत्सवरसेन वधूसहायाः । पूर्वप्रयुक्तनयनद्वयकृष्यमाणा ___ मन्ये विलासमदभारभृतोऽतिमन्दम् ॥ ४६ ॥ अद्य त्वदेकहृदयो हृदयाधिनाथ___ श्चाटुक्रियाभिरनुकूलयते सखि त्वाम् । मुञ्चाभिमानमिदमान्तरलोचनेन मुग्धे विचारय वचो मम मानयैनम् ॥ ४७ ॥ स्वच्छे न वेत्सि किमु चाटुपटुं सपत्नी प्रायो भवन्ति पुरुषाः खलु चाटुसाद्याः। . चेदुत्सवेऽद्य स करिष्यति खेलनानि साधैं तया किमयशःपटहो न तेऽसौ ॥ ४८ ॥ किं चान्यभृयुवतिकूजितपञ्चबाण बाणासनक्वणितरौद्रदिगन्तराणि । एतानि तानवितमानवतीमनांसि वत्से मधूत्सवदिनानि सुदुःसहानि ॥ ४९ ॥ १. 'तनुजन्म' ख-ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy