SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। कोऽप्येष कुजकतरुर्घनसारधूप धूमोर्मिधूपिततनुभृतपुष्पमालाम् । गायन्मधुव्रतवधूमधुरा रवेण वश्यीकरोति कुतुकीव वसन्तलक्ष्मीम् ॥ ३१ ॥ श्रीमद्वसन्तऋतुराजविलासभूमि (तर्विभाति सहकारमहीरुहोऽयम् । स्थानप्रदायिषु षडनिषु कोकिलेय मत्र प्रपञ्चयति कंचन पञ्चमं यत् ॥ ३२ ॥ मत्तेषु पथ्य दयितारसविह्वलेषु __ पारावतेषु कृतकौतुककूजितेषु । एषा वसन्तपरिरम्भभरेण रम्भा कामातुरेव मकरन्दरसं ददाति ॥ ३३ ॥ नव्यप्रसूनमिषतो नवमाधवीयं वेदोदबिन्दुनिवहानिव हासयन्ती । सङ्गे वसन्तकमितुर्घनचञ्चरीक रोमाञ्चकञ्चकितचारुतनुश्चकास्ति ॥ ३४ ॥ अद्याप्यजातकुचकल्पफला मिलन्त्यो मन्दानिलेन शिशुकेलिकलेन पश्य । कन्या इव स्फुरितनूतनपुष्पहासाः क्रीडां मिथो विदधते नवनालिकेर्यः ॥ ३५ ॥ खर्जूरिकाविशदरेणुकणाक्लीभि रश्मामलीकृततनूः पटलीरलीनाम् । प्रध्वानिनीर्मदनपुष्पमयेषुपति कल्पाः कृताम्बरगतीः कति नानमन्ति ॥ ३६ ॥ व्यालोलमञ्जरिभरः स्फुरितप्रसूनः कस्योत्सवं हृदि ददाति न सिन्दुवारः । १. कुजकः सेवतीभेदः, 'सेवतीपुष्पसाहस्रात्कुब्जकं पुष्पमुत्तमम्' इति नरसिंहपुराणम्. २ वसन्तकामुकस्य.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy