________________
रामायणम् ।
३२३ अकालचारिण इति तत्साधुभिरवन्दिताः। दत्ता सनास्ते द्युतिना तत्र पारणकं व्यधुः ॥२६॥ प्रायाता मथुरापुर्य्यां यास्यामस्तन सम्प्रति । इत्याख्याय समुत्पत्य खं स्थानं ते पुनर्ययुः ॥२७॥ तेषां जङ्घाचारणानां गुणस्तोत्रं द्युतिर्विधात् । । तत्माधवः कताऽवज्ञाः पश्चात्तापं प्रचक्रिरे ॥२८॥ तच्छुत्वा श्रावकः सोह हत्तोप्यनुशयं व्यधात । कार्तिक श्वेतसप्तम्यां ययौ च मथरां पुरीम् ॥२६॥ अर्चित्वा तत्र चैत्यानि सप्तर्षी स्तानवन्दत । क्षमयामास चावज्ञा दोषं भंसन खयं कृतम ॥३०॥ सप्तर्षीणां प्रभावेण शान्तरोगं खमण्डलम् ।। विज्ञायेयाय कार्तिक्यां शव मोपि हि तां पुरीम् ॥३१॥ तान्नत्वोवाच शव नो मिक्षा में गृह्यतां गृहे। प्रत्यूचे स्तेपि साधूनां राजपिण्डो न कल्यते ॥३२॥ भूयोऽप्युवाच शत्रनो यूयं मय्युपकारिणः । मद्देशे दैविको रोगः शान्तोयमत्प्रभावतः ॥१३॥ तल्लोकानुग्रहायेह किञ्चिदद्यापि तिष्ठत । सर्वा प्रतिमवतां ह्यन्योपकृतिहेतवे ॥३४॥ तेप्यूचिरे गता प्राट कालोयं तीर्थयात्रया। अधना विहरिष्यामा नैकन मुनयः स्थिरा: ॥३५॥