________________
१८८
रामायणम् ।
खस्यावस्था त हिरा स्थात्का कुस्थ गृहिणी तदा । सूर्योदयं चिन्तयन्ती चक्रवाकीव जाग्रती ॥५५॥ सौमित्रिमरितोद्येति क्षणं विजहर्ष रावणः । क्षणं स्मृत्वा भ्रातृपुत्रमित्रबन्धु रुरोद च ॥५६॥ हा वत्स कुम्भकर्ण त्वं ममात्मे वापरः परः । द्वितीयाविव मे बाहू इन्द्र जिन्मेघवाहनौ ॥ ५७॥ हा वत्मा जम्बुमालाद्या मम रुपान्तरोपमाः । अप्राप्तपूर्वं प्राप्तास्य कथं बन्धं गजा इव ॥ ५८ ॥ स्मारं स्मारं खबन्धनामित्यं बन्वादि नूतनम् । भूयो भूयो दशग्रीवो मुमूर्च्छ च रुरोद च ॥ ५६ ॥ इतञ्च पद्मसैन्ये प्राक् प्राकारद्वाररक्षकम् । भामण्डलमुपेत्यैवं कोऽपि विद्याधरोऽवदत् ||३०|| पद्मपाद'न्दर्शय मे तदाप्तो ननु यद्यसि | अलं लक्ष्मण जीवातुमाख्यास्यामि हितोस्मि त्रः ॥ ६१ ॥ विष्टत्य पाणिना दोष्णि नीतो भामण्ड लेन सः । पद्मस्य पादपद्मान्तं प्रणम्यैवं व्यजिज्ञपत् ॥६२॥ सङ्गीताङ्गपुरनाथस्य शशिमण्डल भूपते । तनयः प्रतिचन्द्रोऽहं सुप्रभाकुचिसंभवः ॥ ६३॥ क्रीडार्थं सकलबोऽहं चलितोऽन्येद्युरम्बरे । दृष्टः सहखविजयनाम्ना विद्याधरेण च ॥ ६४ ॥