________________
रामायणम
१६५
खामिन सह व्रतादानमादावप्यर्थितं मया । तात तन्त्रान्यथा कर्तु कस्यापि वचसाऽर्हसि ॥ ३२ ॥ राजाप्युवाच मा वत्म मत्प्रतिज्ञां मुधा कुरु । वरोमयाहि त्वमातुर्दते । न्यासीकृतश्चिरम् ॥३३॥ सेोऽथ ते राज्य दानेन कैकेय्या याचितेऽनघ । श्राज्ञां मम च मातुश्च नान्यथा कर्तुमर्हसि ॥ ३४ ॥ रामोभरतमित्यूचे न ते गर्वेऽस्ति यद्यपि । तथापि सत्यापयितुं तातं त्वं राजामुद्दह ॥ ३५ ॥ अवाचमरितदृष्टिर्भरता गङ्गदाक्षरम् । पतित्वा पादयो राममित्यवाच कृताञ्जलिः ॥ ३६ ॥ तातपादार्थपादानां महेच्छानामदः खलु । उचितं ददतां राजप्रमाददानस्य मे नतु ॥ ३७ ॥ तातस्य मृनुः किं नाहं किंवा नार्यस्य चानुजः । सत्यं मातृमुखोस्मेष ग्राह्यमेवं करोमि चेत् ॥३८॥ रामो राजानमित्य चे भरत परिसत्य सौ I राज्यं नादास्य ते तस्माद्वनवासाय याम्यहम् ॥३६॥ इत्यनुज्ञाप्य राजानं रामो नत्वा च भक्तितः । भरते च रुदत्युच्च निर्ययौ चापतूणवान् ॥ ४० ॥ वनवासाय गच्छन्तं दृष्ट्वा दशरथः सुतम् । भूयो भूयो वयौ मूर्च्छामतुच्छां नेह कातरः ॥४१॥