________________
रामायणम् ।
ययः परमसम्बेगं चन्द्रगत्यादयोप्यथ । खमेति सोतांच नमश्चक्रे भामण्डलः सुधीः ॥ ८२ ॥ जातमात्रो योपजह्न सोयं मम सहेादरः । इतिहृष्टाऽभिषं तसौ ददौ सीता महासती ॥८३॥ नमश्चकार रामं च ललाटस्पृष्टभूतलः । भामण्डलो विनयवान् सद्यः सञ्जातसौहृदः ॥ ८४॥ समं विदेहया देव्या जनकं भूपतिं ततः । तत्वानैषीञ्चन्द्रगतिः प्रेष्य विद्याधरोत्तमान् ॥८५॥ जातमात्रापहारादि टत्तान्ताख्यानपूर्वकम् । भामण्डल सुतस्तै सांचिति तस्मै शशंस सः ॥ ८६॥ जहर्ष वचसा तेन स्तनितेनेत्र वर्हिणः ।
१६०
ू
७
जनको जननी सा च विदेहा स्तन्यमक्षरत् ॥८७॥ भामण्डलोनमश्चक्रे पितरावुपलच्य तौ । चुम्यमानो मूर्द्धिताभ्यां स्वाप्यमानोऽबुवारिभिः ॥ ८८ अथ चन्द्रगती राज्यं न्यस्य भामण्ड ले सुतें । भवेोद्विग्नः प्रवव्राज सत्यभूतिमुनेः पुरः ॥ ८६ ॥ सत्यभूतिं चन्द्रगतिं पितरावनरण्यजम् । सीतारामौ च नत्वाऽगान्त्रि भामण्डलः पुरम् ॥१०॥ सत्यभूतिं महर्षिं तं नत्वा दशरथो नृपः ।
ू
श्वष्टच्छतात्मनः पूर्वभवानाख्यन्मुनिञ्चसः ॥ ६१ ॥