________________
काव्यमाला ।
महाकुचभराकृष्टसंक्षिप्तान्तर्भुजान्तरैः । क्षिपद्भिः केकरान्स्वस्मिन्नियन्तुमसहैरिव ॥ ११ ॥ सिञ्चद्भिरिव लावण्यरसवृष्ट्या दिगन्तरम् । कैदारिकगतैर्दारैश्चकितं विनिचायितम् ॥ १२ ॥ (त्रिभिर्विशेषकम् )
छोत्कारेति ॥ छोत्कारस्येव छातं तनूकृतं जठरमुदरं येषां तैः तृणस्य कौतुकेन कंकणानियेषां तैः। बन्धूकानां तिलके न्यासो येषां तैः नीलोत्पलस्य वतंसः कर्णपूरो येषां तैः, महतोः कुचयोर्भरेण पूर्वमाकृष्टं पश्चात्संक्षिप्तमन्तर्भुजान्तरं येषां तैः केकरान् कटाक्षान् स्वस्मिन् नियन्तुं निरोद्धुमसौरशक्तैरिति क्षिपद्भिः, लावण्यरसस्य शरीरकान्तिविशेषनिर्यासस्य दृष्ट्या वर्षणेन दिगन्तरं सिश्चद्भिरिव, केदारसमूहगतैः दारैः कलत्रैः विनिचायितमवलोकितम् चकितं यथा स्यात्तथा ॥ रावणप्रतापशरत्कालयोः स्वभावकथनम् ॥ बिशक्षीरचितां चचं व्याददद्भिः कथंचन ।
सरःसु पक्षतिक्षेपैरटितं वाटराटकैः ॥ १३ ॥
६८
बिशेति ॥ बिशस्य पद्मिनीकन्दस्य क्षीरेण दुग्धेन चितां व्याप्तां चचं व्याददद्भिरुद्घाटयद्भिः वाटराटकैः हंससमूहैः कर्तृभिः पक्षतिक्षेपैः पक्षमूलविधूननैः करणैः सरःसु तडागेषु कथंचन महता कष्टेन अटितं गतम् ॥ शरत्पक्षे राटतं शब्दितम् ॥ वर्षासु हि हंसा मानसे गच्छन्ति शरदि च प्रत्यागच्छन्ति ॥
कंजकिंजल्कगन्धान्धैः केकारवविषादिभिः ।
नष्टं प्रापनिकैः क्वापि दुष्कलकुलैरिव ॥ १४ ॥
कंजेति ॥ कंज किंजल्कस्य पद्ममकरन्दस्य गन्धेन परिमलेन अन्धैः, केकारवे विषादो येषां तैः। न कर्मधारयादिति तु प्रायिकम् । प्रापनिकैर्मयूरैः दुष्टं कललं येषु तैः कुलैरिव क्वापि नष्टम् चक्षुर्गोचरतातो भ्रष्टम् ॥ रावणभयेन दृष्टिपथे नायातम् ॥ शरत्पक्षे वर्षासु हि केकायन्ते न प्रान्ते इति केकाभावादलक्षिततां गतम् ॥
दन्तान्तरसमासक्तपुष्करा दिक्षु दन्तिनः । घनबन्धननिर्मुक्ता जगर्जुर्दुर्जना इव ॥ १५ ॥
दन्तेति ॥ दन्तयोरन्तरे मध्ये समासक्तं पुष्करं शुण्डाग्रं यैस्ते घनबन्धनेन निबिड - न्धनेन निर्मुक्ता दन्तिनो गजा दुर्जना इव दिक्षु जगर्जू रावणभयेन ॥ शरत्पक्षे – पुष्करमम्भोरुहम् । घनो मेघः ॥
निशम्याक्रान्तजगतः पाटवं तस्य दुःसहम् ।
आसीदास्वनितस्यापि क्षोभोऽरण्ये तपस्यताम् ॥ १६ ॥
निशम्येति ॥ आक्रान्तं जगद्येन तस्य रावणस्य शरदश्च दुःखेन सोदुमर्ह पाटवं नि