________________
५२
काव्यमाला |
मी दृष्टिश्च सैन्यमयी कामविमानभूमिः गगनम् रजोमयी धूलीप्रचुरा शङ्का आत्मसंहारमयी बभूव ॥ समुच्चयः ॥
इत्यद्रिकुञ्जान्सरितः सरांसि स्वपच्छयूच्छ्रासचलं वनं च । विप्लावयन्ती तमियाय देशमक्षौहिणी वारिधिमापगेव ॥ ४९ ॥
इतीति ॥ इत्युक्तप्रकारेण अक्षौहिणी अद्रिकुञ्ज शैलकटकसमूहान् सरितो नदी: सरांसि सरोवराणि स्वपच्छयूच्छ्वासचलं निद्राणाजगरघोणाविनिर्गतवातचञ्चलं वनं च विप्लावयन्ती सती तं देशं दण्डकारण्यं विराटदेशं च आपगा नदी वारिधिम् इव इ
याय प्राप ||
ततो गभीरश्चरितैरगाधैर्ज्वलन्निवान्तःकरणेन कुप्यन् । स्पृष्टानुमेयस्फुरितोदराग्निरुच्चैरुदन्वानिव दीप्यमानः ॥ ५० ॥ पतिर्मृगाणां गजबृंहितेन कल्पान्तमेघेन च सुप्रतीकः । यथा सुधांश्वभ्युदये च वार्धिः क्षोभं रिपूणां निनदेन गच्छन् ॥ ११ ॥ स संजिहीर्षन्निव जीवलोकं यमेन कुर्वन्निव दृष्टियुद्धम् । वमन्निव क्रोधहुताशराशिं गिलन्निवाशाः स्थगयन्निवार्कम् ॥ १२ ॥ आदित्सया मानधनस्य सैन्यमभ्यर्णमाकर्ण्य विकीर्णनादम् । द्विषः सदो दाशरथी रयेणाव्यापत्सहेनावरजेन भीमः ॥ १३ ॥ (चतुर्भिः कुलकम् )
तत इत्यादि ॥ ततोऽक्षोहिणीप्रात्यनन्तरम् अगाधैर्गम्भीरैः चरितैराचरणैः अगाधो गम्भीरः । अन्तःकरणेन हृदयेन ज्वलन् दहन् इव कुप्यन् कोपं गच्छन् उदन्वानुदधिः, इव, स्पृष्टानुमेयस्फुरितोदराभिः स्पृष्टेन स्पर्शेन अनुमेयः प्रमाणगोचरः स्फुरितो विजृम्भितः उदराग्निर्जठराग्निर्यस्य तादृकू सन् उच्चैरतिशयेन दीप्यमानः प्रज्वाल्यमानः । गजबृंहितेन करिचीत्कृतेन मृगाणां पतिः सिंह इव, कल्पान्तमेघेन प्रलयकालजलदेन सुप्रतीक ईशानाशागज इव, सुधांश्वभ्युदये चन्द्रोदये वार्धिः समुद्र इव, रिपूणां निनदेन ध्वनिना क्षोभं गच्छन्त्रजन् । जीवलोकं प्राणिवर्ग संजिहीर्षन् संहर्तुमिच्छन् इव यमेन कृतान्तेन सह दृष्टियुद्धं विलोचनयुद्धं कुर्वन् विदधत् इव । क्रोधहुताशराशिं क्रोधानला - वलीं वमन् उद्गिरन् इव । आशा दिशो गिलन् उदरमध्ये कुर्वन् इव । अर्क सूर्य स्थगयन् प्रच्छादयन् इव । स भीमो रौद्रो दाशरथी रामः सहेन समर्थेन अवरजेन कनिष्ठेन लक्ष्मणेन सह विकीर्णनादं विस्तीर्णध्वनि सैन्यं बलम् अभ्यर्ण निकटम् आकर्ण्य श्रुत्वा मानधनस्य गर्वधनस्य आदित्सया जिघृक्षया द्विषः शत्रोः सदः सभां रयेण वेगेन व्यापत् व्याप्तवान् ॥ भारतीये – स रथी भीमो वृकोदरः सदा सर्वदा व्यापत्सहेन विपत्सहिष्णुना अवरजेनार्जुनेन, अमानधनस्य प्रचुरगोधनस्य आदित्सया द्विषः शत्रून् उदाश उच्चैर्भक्षया
मास ॥