________________
काव्यमाला।
संभाषणेनेति ॥ त्वं लक्ष्मणो द्रौपदी च, विषादभावेन क्रूरपरिणामेन, मे मम शर्पणखायाः कीचकस्य च, विषादं मनोग्लानिम्, संभाषणेन अपि न जिहीर्षसि हर्तुमिच्छसि। हि यतः कल्पतरोः तव आभाषणम् अपि फलान्तरायाय फलविघ्नाय न कल्पयन्ति ॥ अर्थान्तरन्यासः ॥
कथां तदीयां स निशम्य भीमः प्रभाव्यसौमित्र्यभिधानरूढः ।
राजाग्रजादर्शितकार्यसिद्धिरन्तर्मदोऽन्तःकुपितः करीव ॥ २२ ॥ कथामिति ॥ स सौमित्र्यभिधानरूढः सौमित्रिनामाङ्कितो लक्ष्मणसंज्ञः राजा भीमो भयानकः, अग्रजादर्शितकार्यसिद्धिः अग्रजस्य रामस्य आदर्शिता कार्यसिद्धिर्येन ताइक्च सन् तदीयां शूर्पणखीयां कथां निशम्य श्रुत्वा प्रभाव्य पर्यालोच्य सौमित्र्यभिधानरूढः शोभनमित्रवत्ताभिधाने रूढः, राजाग्रजादर्शितकार्यसिद्धिः राज्ञोऽग्रजो राजपदयोग्यः आदर्शिता कार्यसिद्धिर्येन प्रकटितशत्रुजयप्राप्तिः भीमो रौद्रः, अन्तर्मदः करी इव अन्तः कुपितः॥ भारतीये-असौ खड़े मियभिधानरूढः मित्रमस्यास्तीति मित्रि अभिधानं रूढं यस्य स प्रभावी समाहात्म्यः, राजाप्रजादर्शितकार्यासिद्धिः राज्ञो युधिष्ठिरस्य अग्रजा भाविनी आद. र्शिता कार्यसिद्धिर्येन स भीमो वृकोदरः तदीयां कीचकीयाम् ॥ श्लेषोपमा ॥ . अभ्येत्य निर्भर्त्य जगाद वाचं स्त्रीत्वं परागच्छ न वध्यवृत्तिः ।
प्रेडोलिताङ्गं रसनाकरेण मृत्योर्द्विजान्दोलनमिच्छसीव ॥ २३ ॥ अभ्येत्येति ॥ स लक्ष्मणः अभ्येत्य संमुखीभय निर्भय॑ वाचं जगाद। (किमिति ।) त्वं परा अन्यदीया स्त्री गच्छ याहि । वध्यवृत्तिरिणयोग्या न । रसनाकरेण जिह्वाहस्तेन प्रेसोलिताङ्ग दोलायितशरीरं मृत्योर्यमस्य द्विजान्दोलनं दन्तोत्पाटनम् इव इच्छसि ॥ भारतीये-स भीमः । हे पर शत्रो, त्वं स्त्रीत्वम् आगच्छ । येन वध्यवृत्तिः न स्यात् ॥ श्लेषोत्प्रेक्षा ॥
खजीविते निर्विजसे यदि त्वं विशानलं वा गिल कालकूटम् ।
तेनाहतेयं महिलेति मे मा कृथा जनोदाहरणं दुरन्तम् ॥ २४ ॥ स्वेति ॥ त्वं यदि स्वजीविते, निर्विजसे निर्विषण्णतां गच्छसि, तदा अनलमग्निं विश प्रविश, वाथवा कालकूटं विषं, गिल खाद, 'तेन लक्ष्मणेन भीमेन वा, इयं महिला स्त्री आहता इति दुरन्तं दुर्निवारं, जनोदाहरणं लोकदृष्टान्तं मे मम मां कृथाः ॥ स्वरूपाख्यानम् ॥
आशङ्कसे चेत्परिभावमयस्तवास्ति यद्यानय तं बलिष्ठम् ।
अतो मुखेनाहितवान्पदं स्यान्महारथः साहसिकः स एव ॥ २५ ॥ - आशङ्कस इति ॥ चेत् त्वं परिभावम् आशङ्कसे मन्यसे । यदि तव अर्यः स्वामी अस्ति