SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १८ सर्गः) द्विसंधानम् । इत्याकर्ण्य तमुत्साहं साहंकारं सुरावली । सुरावलीला साशंसं साशं संप्रशशंस तम् ॥ ९२ ॥ ___ (शृङ्खलायमकः) इत्येति ॥ सुरावलीला सुरावा मधुरध्वनिीला यस्याः तादृक् सुरावली देववृन्दम् इति पूर्वोक्तं तम् उत्साहम् आकर्ण्य, साहंकारं सगर्व साशंसं सप्रशंसं साशं सवाञ्छं तं लोकप्रतीतं प्रतिविष्णुं संप्रशशंस प्रशंसां कृतवती ॥ शौर्य हीश्च कुलीनस्य स्खे नुः सद्मार्गलाञ्छनम् । वस्वितीवोक्तये भेर्यः स्वेनुः सद्मार्गलाञ्छनम् ॥ ९३ ॥ (समपादयमकम्) शौर्यमिति ॥ भेर्यः कुलीनस्य नुः शौर्य ह्रीश्च स्वे आत्मीये स्याताम् । तथा वसु सद्मार्गलाञ्छनं सतां सत्पुरुषाणां मार्गस्य लाञ्छनं चिह्नमेव वसु अस्ति इति उक्तये इव समार्गलाञ्छनं मन्दिरार्गलोल्लङ्घमं यथा स्यात्तथा स्वेनुर्ध्वनितवत्यः ॥ गाथका गाथकाबन्धैः सज्जगुः स्थाम सजगुः । राशिराशिश्रवन्नाम वन्दिनां गुणवन्दिनाम् ॥ ९४ ॥ गाथका इति ॥ गाथका मङ्गलपाठकाः सत् समीचीनं स्थाम चलं गाथकावन्धैर्जगु. र्गायन्ति स्म । तथा–सजगुः सजा गौर्वाणी यस्य चतुरवचनो गुणवन्दिना गुणस्तवनशीलानां वन्दिनां राशिः समूहो नाम अभिधानम् आशिश्रवत् श्रावितवान् । देवैर्विमानशालायामाश्रितैर्मत्तवारणीम् । रणरङ्गस्तयोस्तत्र पूर्वरङ्ग इवाभवत् ।। ९५ ॥ देवैरिति ॥ तत्र युद्धे तयोर्विष्णुप्रतिविष्ण्वो रणरङ्गः विमानशालायां मत्तवारणी मत्तालम्बनम् आश्रितर्देवैः । षष्ठयां प्राप्तायां तृतीया । देवानां पूर्वरङ्ग इव अभवत् संजातः ॥ नामोचितेन चक्रान्तं दोष्णावामुचद्धरिः । नामोचि तेन च क्रान्तं धैर्य जगति वैरिणा ॥ ९६ ॥ (विषमपादयमकम्) नामोचितेनेति ॥ हरिर्नामोचितेन कीर्तनयोग्येन दोष्णा बाहुना चक्रान्तं चक्रस्वरूपं शस्त्रम् आवर्त्य भ्रमयित्वा, अमुचत् त्यक्तवान् । तेन वैरिणा तु जगति भुवने क्रान्तं प्रसृतं धैर्य नामोचि त्यक्तम् ॥ तेनार्जितात्मशिरसा श्रीः कथं सा बहिःशिरः । इतीवोत्सृज्य सोऽन्यानमुत्तमाङ्गमतोऽग्रहीत् ॥ ९७ ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy