________________
(गतपय
१८ सर्गः]
द्विसंधानम् । न आनवन्ति तान् पापापापान् उपपान्ति रक्षयन्ति तादृशो निरपराधरक्षकान्, अनूनान् प्रचुरान् , नृन् पपौ ररक्ष । तत्तस्मात्कारणात्, तत्तातस्तत्पिता सन् आततिं श्रेणीम् अतत विस्तारितवान् ॥
छिन्नैः शफैः समीकेऽस्त्रैरर्वतां गोखुरैरिव । हस्तिहस्तक्रमैः कीर्णे मुसलोलूखलैरिव ॥ २९ ॥ तेजिते तमसा जेरे रेजेऽसामततेऽजिते । भासितेऽरदनारीभे भेरीनादरतेसिभा ॥ ३० ॥ (युग्मम्)
(गतप्रत्यागतम्) छिन्नैरिति ॥ अस्त्रैः छिन्नैः, अर्वतामश्वानां शफैः खुरैः गोखुरैरिव । अश्वशफानां मध्ये छिन्नत्वेन गोखुरोपमोक्तिः । हस्तिहस्तक्रमैः शुण्डालशुण्डाचरणैः मुसलोलूखलैरिव कीर्णे व्याप्ते, तेजिते प्रदीप्ते, असामतते असामभिः सकोपैस्तते व्याप्ते, अजिते अनभिभूते, भासिते प्रकाशिते, अरदनारीभे अरदना अदन्ता अरीणामिभा गजा यत्र, भेरीनादरते भेरीणां नादे रतं यस्य तादृशि, समीके सङ्ग्रामे तमसान्धकारेण जेरे जीणे विनष्टम् । तथा असिभा खगदीप्ती, रेजे शोभिता ॥
गर्भापोढा इव हयाः पङ्कात्यस्ता इव द्विपाः। . उन्मत्ता इव तत्रासञ्धैमताः शस्त्रपाणयः ॥ ३१॥ गर्भेति ॥ तत्र सङ्ग्रामे त्रैमता विष्णुसंबन्धिनः या अश्वा गर्भापोढा गर्भनिर्गता इव, द्विपा गजाः पङ्कात्यस्ताः कर्दमनिर्गता इव, शस्त्रपाणयः सुभटा उन्मत्ता इव,
आसन् ।
अत्यध्वान्तां महोपायां चमूमुत्सृज्य वैष्णवीम् । अत्यध्वां तां महोऽपायां वैरीयां तत्तमोऽविशत् ॥ ३२॥
(समपादयमकम्) अत्येति ॥ तत् तमो अत्यध्वान्तां ध्वान्तमुत्साहं न अतिक्रान्तां महोपायां महानुपायो यस्यां तादृशं वैष्णवी चमूम् उत्सृज्य त्यक्त्वा, अत्यध्वाम् अध्वानमतिक्रान्ताम् । 'उपसर्गादध्वनः' इति समासान्तः । महोऽपायां महसां प्रतापलक्षणतेजसामपायो विनाशो यस्यां तादृशं तां वैरीयां शात्रवी चमूम् अविशत् ॥
अयानि तव तिष्ठ त्वं गृहाणायुधमायुधम् ।
इत्येकवाक्यौ वैरेऽपि तावाद्वेतां परस्परम् ॥ ३३ ॥ अयानीति ॥ अहं तव संमुखम् अयानि, त्वं तिष्ठ, आयुधम् आयुधं गृहाण, इत्येवं प्रकारेण, वैरेऽपि एकवाक्यौ समानवाक्यौ, तौ परस्परम् आह्वेतामाहूतवन्तौ ॥