SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १७ सर्गः] द्विसंधानम् । १८५ गच्छतः, क्षतजप्रवाहनिवहस्य रक्तपूरसमूहस्य द्युतलानि गमनतलानि अधिरूढं रागपटलम् इव' बभौ शोभितम् ॥ अथ वारुणीरुचिरभाजि न परममुनाम्बरस्थितिः । क्वापि रविरवपतन्भविता तदितीव तद्गतमगामि संध्यया ॥ २८ ॥ अथेति ॥ अथ संध्याप्रवेशानन्तरम् अमुना रविणा वारुणीरुचिः पश्चिमाशादीप्तिः परं केवलं न अभाजि सेविता । अम्बरस्थितिर्गगनस्थितिः । तथा रविः क्वापि अवपतन् भविता । अत्र लुप्तोपमा । यथा मद्यपेन वारुणीरुचिर्मदिराभिलाषः न अभाजि भग्ना । तथा अम्बरस्थितिर्वस्त्रस्थितिरभाजि भन्मा । तथा क्वापि अवपतन भविता इति हेतोः । ननदनन्तरं संध्यया तद्गतं सूर्यगमनम् अगामि इव ॥ परतस्तमांसि पुरतोऽस्य सवितुरभवन्महोद्यमः। दिग्विजयमधिकरोति किमु क्षुभितं हि पश्चिममचिन्तयन्प्रभुः ॥२९॥ परत इति ॥ अस्य सवितु: पुरतोऽग्रे महोद्यमोऽभवत् । परतः पश्चात् तमांसि अभवन् । युक्तमेतत् । हि यतः-उ अहो क्षुभितं पश्चिमम् अचिन्तयन् अवितर्कयन् प्रभुदिग्विजयम् अधिकरोति किम् । अपि तु न । उपवन्यभूम्युपगिरं च दिवसमुपलाय वाहयत् । प्राप तिमिरमुरुमभ्युदयं किल कं न यापयति दुर्गयापना ॥ ३० ॥ उपेति ॥ तिमिरं तम उपवन्यभूमि कान्तारसमीपम् उपगिरं गिरिसमीपम् उपलाय लीनो भूत्वा दिवसं दिनं वाहयत् अतिलवमानं सत् उरुं गरिष्टम् अभ्युदयं प्राप । किल दुर्गयापना दुर्गमनिका कं न यापयति अतिक्रामति ॥ द्युमणौ प्रतापिनि गतेऽस्तमभयचिरसंगमात्तमः। श्लिष्यदिव घनमशेषमभूत्प्रलयः प्रियो हि खरदण्डतोषिणः ॥ ३१ ॥ युमणाविति ॥ प्रतापिनि घुमणौ सूर्येऽस्तंगते सति घनं तमोऽशेष श्लिष्यद् आलिङ्गदिवाभूत् । हि यतः खरदण्डतोषिणस्तीव्रदण्डतोषिणः कमलतोषिणः प्रलयः प्रियो भवति । तीव्रदण्डत्वात् ॥ निजदुःसुतं कुलमिवाशु गुरुगृहमिवायथोद्यतम् । राज्यमिव समुदितव्यसनं भुवनं परास्तमवबद्धतामसम् ॥ ३२ ॥ निजेति ॥ अवबद्धतामसं स्वीकृततमोविकारं भुवनं जगद् आशु शीघ्रं निजदुःसुतं निजो दुष्टः सुतो यत्र तत् कुलम् इव, अयथोद्यतमसदाचारं गुरुगृहम् इव, समुदितव्यसनं संप्राप्तदुःखं राज्यम् इव परास्तं प्रक्षिप्तम् ॥ कृतमुच्छ्रितं तदनुदात्तमधरतरमुच्चमाहतम् । क्वाप्यजनि न च विवेकमतिः कुनृपैकचेष्टितमिवाभवत्तमः ॥ ३३ ॥ २४
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy