________________
१७४
काव्यमाला ।
वsपि नवप्रियत्वोद्धभिया नूतनप्रेमप्रभङ्गभयेन इव अन्योन्यकृतं परस्परोपकारं न तत्यजुः ॥
ते सायकाः संयति संनिवृत्य कर्तुं प्रियाख्यानमपारयन्तः । स्वं साहसं पत्युररातिवर्गैर्भृत्या इवाख्यन्पतिताः पतद्भिः ॥ १८ ॥
ते सायेति || संयति संनिवृत्य प्रियाख्यानं कर्तुम् अपारयन्तः, ते सायकाः पतद्भिररातिवर्गैः सह पतिताः सन्तः भृत्या इव । स्वं साहसं पत्युराख्यन् निवेदितवन्तः ॥ ध्रुवस्य शौर्यायतनस्य कर्तुं राज्ञा शिलाशासनमिच्छतेव ।
वक्षः स्वनामाक्षरमार्गणाङ्कं परोवरस्याक्रियताखिलेन ॥ ५९ ॥
ध्रुवस्येति । ध्रुवस्य स्थिरस्य शौर्यायतनस्य शौर्यमन्दिरस्य शिलाशासनं शिलोत्कीर्णप्रशस्ति कर्तुम् इच्छतेवाखिलेन राज्ञा परोवरस्य परस्यावरस्य वक्षः स्वनामाक्षरमार्गणाङ्कम् अक्रियत ॥
महीक्षितां दक्षिणबाहुदेशे शरक्षतेऽभूत्क्षतजप्रवाहः ।
वीरश्रियो लाक्षिकपादरागः क्रान्तः श्रमात्प्राप्त इवार्द्रभावम् ॥ ६० ॥
महीक्षीति ॥ महीक्षितां राज्ञां दक्षिणबाहुदेशे शरक्षते सति क्षतजप्रवाहो रक्तप्रवाहः । श्रमादार्द्रभावं प्राप्तः क्रान्तो वीरश्रियो लाक्षिकपादरागो लाक्षया रक्तश्चासौ पादराग इव । अभूत् ॥
नृपास्तिटेषु समुन्नतेषु चितेषु रत्नैर्मकरीगणैश्च ।
द्विषां निचरूनुर्विशिखान्विरोधाद्वेलाद्रिकूटेष्विव चक्रिणस्ते ॥ ६१ ॥ नृपा इति ॥ ते नृपा रत्नैर्मकरीगणैश्च चितेषु समुन्नतेषु द्विषां तिरीटेषु मुकुटेषु, विरोधात् विशिखान् चक्रिणश्चक्रेश्वरा वेलाद्रिकूटेषु इव । निचख्नुर्निखातवन्तः ॥
इतीश्वराः केशवतो भवन्तः साधारणं प्राप्य रणं सलज्जाः । यावन्मनःस्थाम पुनः प्रजहुरप्यन्यसाम्यं महतां हि दैन्यम् ॥ ६२ ॥ इतीति ॥ इत्येवं प्रकारेण साधारणं सोपमं रणं प्राप्य केशवतो लक्ष्मणान्नारायणाद्वा सलज्जाः भवन्तः पुनरपि यावन्मनः स्थाम यावन्मनोबलं प्रजहुः प्रहृतवन्तः । हि यतः महतामन्य साम्यं सतुल्यता दैन्यं भवति ॥
यावन्निमेषः पतितोऽपि नैकस्तावत्पपातेषुरसावसंख्यः ।
न यावदेकः पततीषुरेषां सूताः परेषामपतन्नशेषाः ॥ ६३ ॥
यावदिति ॥ यावदेकोऽपि निमेषो न पतितः, तावद् असंख्योऽसौ इषुः पपात । यावदेषामिषूणां मध्यत एकोऽपि न पतति, तावत् परेषां शत्रूणां अशेषाः सूता अपतन् ॥