________________
१३ सर्गः]
द्विसंधानम् । तिदुर्धरस्वरूपमित्येकपदं वा । बीभत्समर्जुनम् , आशंसुः श्लाघ्यमानः भीमो वृकोदरस्तां ध्वजिन्याः पौरस्त्यां गतिमाप ॥ तत्पाद्यं गतधृतिमत्स्यदेशमाढ्यं भुञ्जानोऽनलसहितः सुखं प्रतस्थे । पञ्चालोचितविषयप्रभुश्च सैन्यं बिभ्राणः सवसुयशोविलासिनीलः ॥ २३ ॥
तत्पार्श्व इति ॥ शमाध्यमुपशमप्रधानं सुखं भुजानोऽनुभवन् नलसहितो नलेन राज्ञा सहितः पञ्चालोचितविषयप्रभुः पञ्चाले देशे उचितानां विषयाणां प्रभुर्नील एतदाख्यराजः सवसुयशोविलासि वसुना द्रव्येण सहितेन यशसा विलसति तत् सैन्यं बिभ्राणः सन् गततिमत्स्यदे गमनधैर्यवद्वेगयुते, तत्पार्चे सेनापार्श्वे प्रतस्थे। भारतीये-गतधृति गतं धरमाणे तत्पार्श्वेऽनलसहितः क्रोधाग्निव्याप्तः, अनलसेभ्य उद्योगिभ्यो हित आढ्यं समृद्ध मत्स्यदेशं भुञ्जान उपभुञ्जानो विराटः, सवसुयशोविलासिनीलः वसुना यशसा . विलासिन्या इलया च सहितः, पञ्चालोचितविषयप्रभुः पञ्चालस्योचितस्य धनकनकसमृद्धस्य विषयस्य प्रभुः पालको द्रुपदराजश्च ।। तन्मध्यं हरिकुलनायकैरनेकैरामोदस्फुटसितचन्दनोचिताङ्गः। दुर्वृत्तं विजहदसज्जनार्दनोऽसौ भूपार्थक्षतशमनोद्यतो जगाहे ॥ २४ ॥
दुर्वृत्तमिति ॥ स्फुटसितचन्दनोचिताङ्गः स्फुटसिताय सुग्रीवाय चन्दनाय तन्नान्ने उचितं रक्षणोचितम् अङ्गं यस्य तादृक् दुर्वृत्तं विजहत् असजनार्दनः असतो दुष्टाञ्जनानर्दयति ताक्, भूपार्थक्षतशमनोद्यतो भूपानाम् अर्थस्य क्षात्रधर्मस्य क्षतस्य नाशस्य शमने उद्यतः क्षात्रधर्मप्रतिपालकोऽसौ रामोऽदः । खर्परशान विसर्गलोपः । तन्मध्यं सेनामध्यम् अनेकैहरिवंशनायकैर्वानरसंघस्वामिभिर्जगाहे ॥ भारतीये-आमोदस्फुटसितचन्दनोचिताङ्गः आमोदेन स्फुटस्य सितचन्दनस्योचितमङ्गं यस्य, भूपार्थक्षतशमनोद्यतः भवः पार्थानां च क्षतशमने उद्यतः, जनार्दनो विष्णुः, असद् असमीचीनम् असौ खड्ने, दुर्वृत्तं विजहत् त्यजन् ॥
मदोत्तमाद्रेयबलेभसारे भागेऽपरे सर्पति जाम्बवेऽस्मिन् ।
द्वीपेऽन्विते राजभिरप्रसौः ससर्प वेलेव चमूः पयोधेः ॥ २५ ॥ मदोत्तमेति ॥ मदोत्तमाद्रेयबलेभसारे मदोत्तमैर्मदप्रधानैराद्रेयैः पर्वतोद्भवैर्वलेभैः सैन्यगजैः सारे अप्रसधै राजभिरन्विते अस्मिन् जाम्बवे जाम्बवीयबले अपरे भागे पश्चिमभागे मर्पति सति चमूः । पयोधेर्वेलेव । ससर्प ॥ भारतीये-मदोत्तमाद्रेयबलेभसारे मदेनोत्तैः क्लिनर्माद्रेयबलेभै कुलसहदेवसैन्यगजैः सारे बले सर्पति सति अप्रसधै राजभिरन्विते अम्मिञ् जाम्बवे जम्बूवृक्षोपलक्षिते द्वीपे ।। उपजातिः ॥
एवं नानाक्षत्रियवगैः पृतनाग्रे सालङ्कान्तं रौप्यमिवैतैः सह सालम् । वेलापातश्वेततरङ्गं जलराशिं तं सारम्भोगाङ्गमवापन्नृपतिश्च ॥ २६ ॥
सजना