________________
१ सर्गः ]
द्विसंधानम् ।
न्दनस्य ॥' अथवा अन्धकस्यारातेर्विघातस्य तपश्चर्यातश्चयवनस्य हेतुषु अनन्यसाधारणरूपकान्तिषु कामिनीषु धनुः समारोप्येत्यादि । श्लेषः ॥
११
धनुर्गुणग्राहिषु नम्रवृत्तिषु प्रशुद्धवंशेषु परस्य पीडकम् ।
ऋजुप्रकारेषु कृतायतिष्वसौ भिनत्ति यस्यां हृदयानि मार्गणः ॥ ४० ॥
धनुरिति ॥ गुणो ज्या शास्त्रचातुरीलक्षणश्च । नम्रा नमनशीला मार्दवी च । वंशो वेणुरन्वयश्च । ऋजुः सरलः कृताञ्जलिश्च । आयतिर्दीर्घतोत्तरकालश्च । परिसंख्या ॥
विलोलनेत्रेषु कुशाग्रबुद्धिषु प्रगीतरतेषु मृगेषु चापलम् ।
न यत्र तीक्ष्णाः परदारवृत्तयः परे कृपाणात्कलहप्रवेशिनः ॥ ४१ ॥ विलोलेति ॥ कुशाग्रे बुद्धिर्येषाम् । कुशाग्र इव तीक्ष्णा बुद्धिर्येषाम् । तीक्ष्णास्तीत्रा हिंस्राश्च । परेषां दारे विदारणे वृत्तिर्येषाम् परेषां दारेषु पत्नीषु वृत्तिर्येषाम् इति च ॥ कलहः कोशः कलिश्च । कृपाणात्खङ्गात् । परिसंख्या ॥
प्रकोपनिर्मीलितरक्तलोचनं तलप्रहाराहतकीर्णशेखरम् |
रतेषु दष्टाधरमाहृतांशुकं परं न यस्यां कदनं कचाकचि ॥ ४२ ॥
प्रकोपेति ॥ यस्यां प्रकोपेन विस्फुरितानि रक्तनेत्राणि यत्र, तलप्रहारेण पूर्वमाहताः पश्चात्कीर्णाः शेखराः केशबन्धनानि यत्र, कचेषु कचेषु गृहीत्वा प्रवृत्तं कदनं युद्धं सुरतेषु परं वर्तते नान्यत्र । परिसंख्या ॥
जघन्यवृत्ति पुरि यत्र काञ्चयः श्रयन्ति कर्णेजपतां च कर्णिकाः । परस्य वा कण्ठकचग्रहोत्सवं व्रजन्ति मुक्तावलयो न योषितः ॥ ४३॥ जघन्येति ॥ जघन्या जघनभवा अधमा च । काञ्श्चयः कटिसूत्राणि । कर्णेजपता कर्णसामीप्यं सूचकता च । कर्णिकास्ताटङ्कभूषणानि । परिसंख्या ॥
मदच्युता नीरदनादबृंहिता भवन्ति यस्यामवदानवृत्तयः ।
अनुत्कटा नित्यविहस्तसंश्रया महारथा न द्विरदाः कदाचन ॥ ४४ ॥ मदेति ॥ यस्यां मदेभ्यो जातिकुलैश्वर्यरूपाभिमानज्ञानतपः सिद्धिशिल्पिलक्षणेभ्यश्चयुताः, मेघनादवर्धिताः, अवदाने त्यागशौर्यप्रसिद्धौ वृत्तिर्येषाम्, अतीत्राः, नित्यं विहस्तानां निराश्रयाणां संश्रया महारथां भवन्ति ॥ द्विरदा गजा न गण्डक्षरणलक्षणेन मदेन च्युताः, रदैर्दन्तैर्नादैर्ध्वनिभिर्बृहितैश्चीत्कृतैर्वर्जिताः, अवगतकटोद्भेदानान्तरीयवृत्तयः, नोद्भिन्नाः कटाः कपोला येषाम्, अनवरतविशिष्टकरसमाश्रयाः, कदापि भवन्ति । श्लेषपरिसंख्ये ॥
जले जने नक्रमहानियोजनं धनुर्भूतां ज्यानिहतिर्न संपदाम् ।
रणे यतौ चापगुणेन संग्रहो विशालता यत्र न सा विशालता ॥ ४५ ॥