SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३ सर्गः] द्विसंधानम् । रागादेरिति ॥ सह वसत एकत्रावस्थानवतोऽपि रागादेर्गान्धर्वीयगीतादेर्योऽवधिरासीत् सोऽवधिस्तापवृत्तेस्तापस्य वृत्तिर्यत्र तादृशः कस्यचित् स्वस्मिन्नात्मनि नासीत् । यद् यस्मात्कारणाद् रिपुं शत्रुमभिपश्यतां सामस्त्येन निरीक्षमाणानामिव भूपानां कोपे स्फु. रति सत्युग्रं रसान्तरं न जज्ञे ॥ सारङ्गैः कृतमणिमण्डनैर्विगाढा साश्वासा प्रतिदिशमुन्नमत्स्यदामा । सामन्तैः पथि चलिता चमूः पयोधेर्वेलेव प्रबलमदध्वनन्मरुद्भिः ॥ ५॥ सारङ्गैरिति ॥ कृतमणिमण्डनैर्विहितरत्नभूषणैः सारङ्गैः शबलवर्णैः सामन्तैर्जाम्बवादिभिर्विगाढा व्याप्ता, साश्वासा शीघ्रप्नुतिसहिता, उन्नमत्स्यदोच्चलद्वेगा, पथि अमा सहैक. कालं चलिता चमः सेना प्रतिदिशं प्रबलं यथा स्यात्तथा । कृतमणिमण्डनैः कृतं मणिभि. जलसूक्ष्मबिन्दुभिर्मण्डनं येषां तैः सामन्तैरासन्नवर्तिभिः सारङ्गैश्चातकैाप्ता, साश्वासा आश्वासैजलप्रवाहैः सहिता, उन्नमत्स्यदामा उन्नं क्लेदं प्राप्त मत्स्यानां दाम माला यस्यां सा, पयोधेः समुद्रस्य वेला मरुद्भिर्वायुभिश्चलिता चालिता इव, अदध्वनत् ध्वनितवती ॥ भारतीये-सारङ्गैर्मातङ्गैः, साश्वा अश्वव्याप्ता, सामन्तैः समुद्रविजयादिभिः अमा सह च. लिता सा चमूः ॥ आनीलं द्विपमधिरुह्य रामभद्रः श्वेतोऽब्दं मिहिर इवासितं निरैयः । सिन्दूरद्युतिरचितं स पीतवासाः कृष्णोऽभ्रं जलद इवारुणं तडित्वान् ॥६॥ आनीलमिति ॥ श्वेतो रामभद्रो रामचन्द्रो बलदेवश्च, ईषन्नीलं गजम् । मिहिरोऽसितं कृष्णमब्द मेघमिव, पीतवासाः कृष्णो लक्ष्मणो वासुदेवश्च सिन्दूरातिरचितं द्विपं 'तडि. त्वान् विद्युत्वान् जलदो मेघोऽरुणं रक्तमभ्रमिवाधिरुह्य निरैयो निर्गतवान् । जौहोत्यादिकस्य ऋधातोर्लङि रूपम् ॥ ये कुन्त्यां जननमिता विभासयन्तो राजानः पथिषु नभःसदाञ्चितेन । धाम्ना ते ननु चतुरङ्गसेनयोच्चैःप्रासादिस्थितियुतया स्म संचरन्ते ॥ ७ ॥ ये कुन्त्यामिति ॥ ये जननमिता जननमस्कृता नभःसदां विद्याधराणां सुग्रीवप्रभृतीनां चितेन पुष्टेन धाम्ना तेजसा त्यां कुं पृथ्वी पथिषु मार्गेषु विभासयन्तः प्रकाशयन्तो राजान: सुग्रीवप्रभृतयः उच्चैः प्रासादिस्थितियुतया प्रकर्षण आसो वृक्षादीनां क्षेप आदिर्येषां तेषां दशनादीनां प्रासादीनां कुन्तादीनां वा स्थित्या युतया चतुरङ्गसेनया हस्त्यश्वरथपदातिपृतनया तुरंगसेनया शीघ्रगामिसेनया वा उच्चैः संचरन्ते स्म ॥ भारतीये-नभःसदा गगनं व्याप्नुवता, अश्चितेन लोकप्रशस्येन विभासयन्तः शोभमानाः कुन्त्यां पाण्डु. पत्न्यां जननं जन्म इता गता उच्चैः प्राः उच्चैःप्रो। पृङ् व्यायामे। घनथै कः । व्यायामो येषां ते राजानो युधिष्ठिरप्रभृतय उच्चैःप्रासादिस्थितियुतया उच्चैः प्रासादाः सप्तक्षणगृहाः सन्ति यस्यां तया स्थित्या युतया पटमण्डपादिसमृद्धिमत्या, सादिस्थितियुतया अश्वासेहस्थितियुतया तुरंगसेनया अश्वसेनया ॥ ११
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy