SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १४२ काव्यमाला | रासंधस्य प्रकृतीनां स्वाम्यमात्यादीनां विरागं विशिष्टानुरागं ज्ञात्वा पुरि नगर्यो समस्तं कृत्यं हस्तेकृत्य हस्तगतं कृत्वा तस्या नगर्याः पारं प्राप्य रम्यं मनोहरं वनमागादागतवान् ॥ मत्तमयूरं छन्दः ॥ उपवनमभिरामवल्लभां स वनजनेत्ररुचि निरूपयन् । स्वपतिगुणविशेषरञ्जितामुपलभते स्म सतीं वचोहरः ॥ ३७ ॥ उपेति ॥ स वचोहरो दूतो हनुमान् उपवनम् अभि अविद्यमानभयं यथा स्यात्तथा निरूपयन् पश्यन् वनजनेत्ररुचि कमलदललोचनकमनीयां स्वपतिगुणविशेषरञ्जितां रागुणादितां रामवल्लभां जानकीम् उपलभते स्म ददर्श ॥ भारतीये – वचोहरः श्रीशैलः अभिरामवल्लभां कमनीयकामिनीम् ॥ अपरवकम् ॥ पथिपथि परिरक्षतो दिगन्तान्दशमुखरागवतो वनान्तपालान् । उपशमफलया स विद्यया तां नयविदवोचत मोहयन्नितीदम् ॥ ३८ ॥ पथीति ॥ नयवित् स हनुमान्, पथिपथि मार्गेमार्गे, दिगन्तान् दिशां सीनः परिरक्षतः समन्ततः पालयतः, दशमुखरागवतो रावणे प्रीतिमतः वनान्तपालान् उपशमफया विद्यया मोहयन्तां जानकीम् इति वक्ष्यमाणप्रकारेण इदमनुपदवक्ष्यमाणम्, अवोचत उक्तवान् ॥ भारतीये - स श्रीशैलः, मुखरागवतः मुखेष्वारक्तिमानं दधानान् दश दिगन्तान् परिरक्षतः तां कामिनीम् ॥ पुष्पिताग्रावृत्तम् ॥ तवैव संदर्शनसंकथाः कथास्त्वयि प्रसक्ताः श्रुतयो दिवानिशम् । त्वयैव वाञ्छाः सहवासतत्परा विना त्वदुवपतिरुन्मनायते ॥ ३९ ॥ , तवेति ॥ हे भद्रे, कथा वार्ताः तवैव संदर्शनसंकथाः संदर्शनं संकथयन्ति तादृश्यः, श्रुतयः श्रोत्राणि दिवानिशं त्वय्येव प्रसक्ताः त्वद्विषयकवार्ताश्रवणोत्सुकाः, वाञ्छा इच्छा त्वयैव सहवास तत्परा एकत्रावस्थानसंधिन्यः प्रवर्तन्ते । त्वत् त्वत्तो विना उर्वीपती राम उन्मनायते खेदमनुभवति ॥ भारतीये – उर्वीपतिर्गरुडध्वजः ॥ वंशस्थम् ॥ सुनिचितमपि शून्यमाभासते परिजनविभवोऽपि सैका किता । अरुचिरभवदस्य लक्ष्मीसुखे त्वदनाभिगमनेन रिक्तं मनः ॥ ४० ॥ सुनिचितमिति ॥ अस्य रामस्य कृष्णस्य वा त्वदनभिगमनेन भवदप्राप्त्या सुनिचितं संभृतमपि शून्यम्, परिजनविभवः परिवारजनसंपद् अपि स एकाकिता, आभासते । लक्ष्मीसुखेऽरुचिरप्रीतिः, मनो रिक्तम् अभवत् ॥ प्रमुदितवदना वृत्तम् ॥ , अनुरहसमुपैति मन्त्रं मुहुः परमपि परिवृत्त्य नाघेत सः । असुषु वसुषु च व्ययं व्यद्भुते सपदि तव कृते न किं तत्कृतम् ॥ ४९ ॥ अनुरेति ॥ स राम्रो नरेन्द्रो वा, तव कृते त्वदर्थमनुरहसं जनकोलाहलोज्झिते एकान्त
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy