SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः | धनदः स्माह गार्हस्थ्ये मम खामी भवानभूत् । भविष्यति यतित्वेऽपि संयोगोऽयं मनः प्रियः ॥ ३३ ॥ ततो राज्ञा सुतो राज्ये स्थापितः कनकप्रभः । धनदस्य सुतः श्रेष्ठिपदे चैव धनावहः ॥ ३४ ॥ ततः साईं महोभर्त्रा पितृभ्यां भार्यया तथा । उपाददे परिव्रज्यां धनदो गुरुसन्निधौ ॥ ३५ ॥ गृहीत्वा द्विविधां शिक्षां कृत्वा च विविधं तपः । मृत्वा सर्वेऽपि ते जग्मुः पुण्यात्मानः सुरालयम् ॥ ३६ ॥ ततश्चुत्वा मनुष्यत्वं प्राप्य श्रमणतां तथा । क्षेत्रे महाविदेहे ते संप्राप्ताः परमं पदम् ॥ ३७ ॥ ॥ इति मत्स्योदरकथा ॥ धनदस्य कथामेतां श्रुत्वा विद्याधराधिप । धर्मो निरन्तरं कार्यस्त्वयेत्यूचे मुनिः स तु ॥ ३८ ॥ तच्छ्रुत्वाऽमिततेजाः स गुर्वाज्ञां शिरसा दधत् । उत्थाय नमति स्मांत्री भूयोऽपि मुनिवर्ययोः ॥ ३८ ॥ चारणश्रमणौ तौ च समुत्पत्य विहायसा । तपोमाहात्मासम्पन्नौ जग्मतुः स्थान' मोप्सितम् ॥ ४० ॥ नरखेचरराजौ श्रीविजयामिततेजसा । गमयामासतुः कालं तावथो धर्मतत्परौ ॥ ४१ ॥ तौ यात्रात्रितयं धन्यौ चक्रतुः प्रतिवत्सरम् । तत्र स्यात् शाश्वतं यात्रादयमेका त्वशाश्वती ॥ ४२ ॥ (१) च -मुत्तमम् । ८७
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy