________________
श्रीशान्तिनाथचरित्रे
धर्मार्थी सुविनीतात्मा सत्यशीलदयान्वितः । गुरुदेवार्चनप्रीतः स श्रेष्ठी धनदत्तकः ॥ ६७ ॥ सत्यभामेति तद्भार्या शौलालङ्घतिशालिनी । पत्यौ प्रेमपरा किं त्वपत्यभाण्डविवर्जिता ॥ ६८ ॥ साऽन्यदा श्रेष्ठिनं पुत्र चिन्ताम्लानमुखाम्बुजम् । दृष्ट्वा पप्रच्छ हे नाथ किं ते दुःखस्य कारणम् ॥ ६८ ॥ श्रेष्ठिना च समाख्याते तस्यै तस्मिन् यथातथे । श्रेष्ठिनो पुनरप्यूचे पर्याप्तं चिन्तयाऽनया ॥ ७० ॥ धर्म एव भवेन्नृणामिहामुत्र सुखप्रदः । स एव सेवनीयो हि विशेषेण सुखैषिणा ॥ ७१ ॥ तत्त्वं देवे गुरौ चापिं कुरु भक्तिं यथोचिताम् । देहि दानं सुपात्रेभ्य: 'पुस्तकं चापि लेखय ॥ ७२ ॥ एवं च कुर्व्वतोः पुत्त्रो भावो यदि तदा वरम् । भविता निर्मलो नाथ परलोकोऽन्यथाऽऽवयोः ॥ ७३ ॥ हृष्टः श्रेष्ठप्रप्युवाचैवं प्रिये साधूदितं त्वया । सम्यगाराधितो धर्मो भवेचिन्तामणिर्नृणाम् ॥ ७४ ॥ ततश्च देवपूजार्थं पुष्यग्रहण हेतवे । आकार्यारामिकं तस्मै ददौ श्रेष्ठी धनं बहु ॥ ७५ ॥ स्वयं गत्वा तदारामे पुष्पाण्यानीय स प्रगे । गृहाचमर्चयित्वा च गच्छति स्म जिनालये ॥ ७६ ॥
(१) गङ पुस्तकांश्चापि ।