________________
द्वितीयः प्रस्तावः |
दृष्ट्वा च कूपकं किञ्चित्कृच्छ्रादाकृष्य तज्जलम् । पोत्वा च वारयामास तृष्णामथ शरोरगाम् ॥ ८५ ॥ विधाय प्राण्यात्त्रां च फलैः कदलिसंभवैः । पुरादपि ततो दूरं भीतभीतो ययावसौ ॥ ८६ ॥ अत्रान्तरे च मार्त्तण्डो निस्तेजा अस्तमीयिवान् । प्राप्ता मयाऽव्यवस्थेति धनदं बोधयन्निव ॥ ८७ ॥ अस्तं गते 'दिवानाथे तमसा क्लेशितं जगत् । विशिष्टज्ञानविरहादज्ञानेनेव सर्पता ॥ ८८ ॥ गिरेः कस्यापि निकटे वह्निमुत्पाद्य दारुणा । तस्य तापेन निःशीतः स व्यतीयाय यामिनीम् ॥ ८ ॥ प्रभातसमये वह्निप्रदेशोर्वी ददर्श सः ।
जातां स्वर्णमयीं सद्यो दध्यौ चैवं सविस्मयः ॥ ८० ॥ नूनं सुवर्णद्दोपोऽयं यदियं ज्वलितानलात् । जातरूपमयौ जाता सद्य एव वसुन्धरा ॥ ८१ ॥ पातयामि ततः स्वर्णमिति ध्यात्वाऽमुना कृताः । इष्टिकानां सुसङ्घाटाः स्वभूताश्च तेऽग्निना ॥ ८२ ॥ भ्रमन्रन्येद्युरद्राक्षौत् निकुञ्जे कुत्रचिह्निरेः । रत्नजातमयं तच्चानिनाय स्वर्णसन्निधौ ॥ ८३ ॥
एवं सुवर्णरत्नानां राशिस्तेन कृतो बहुः । कदल्यादिफलैः प्राण्यात्त्रां चक्रे च सोऽन्वहम् ॥ ८४ ॥
(३) ख च ञ मृत्तिकामयसं ।
(१) घ ङ च ज दिवाधीशे । (२) ख च ञ स्वर्ण राशिस्तेन कृतो बद्धः ।