SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ हितीयः प्रस्तावः । खखपूर्वभवान् श्रुत्वाऽमिततेजीढपादयः । दृष्टा अचुरहो नास्त्यसाध्यं किमपि ब्रह्मणः ॥ २५ ॥ पृष्टोऽथ केवली विद्याधरेशाऽमिततेजसा। भव्योऽहमथवाऽभव्यः प्रभो मे कथ्यतामिति ॥ २६ ॥ केवल्यूचे नवमे त्वं भवे राजनितो भवात् । भविष्यस्यत्र भरते पञ्चमः सार्वभौमराट् ॥ २७ ॥ षोडशश्च जिनेन्द्रोऽयं राजा श्रीविजयः पुनः । पुत्रो भूत्वा गणधरस्तवैवाद्यो भविष्यति ॥ २८ ॥ पृष्ट्वा श्रुत्वा ततस्तस्य पार्वे केवलिनो मुनेः । सम्यकमूल: सुश्राइधर्मस्ताभ्यामुपाददे ॥ २८ ॥ संस्थाप्य स्वात्मजं राज्येऽशनिघोषो विरक्तधीः । तस्य केवलिन: पाखें प्रव्रज्यां समुपाददे ॥ ३० ॥ राज्ञः श्रीविजयस्याम्बा देवी सा च स्वयंप्रभा। . तत्यादान्ते प्रवव्राज भूरिनारीसमन्विता ॥ ३१ ॥ अथ केवलिनं नत्वा स्वपरीवारसंयुतौ। खं खं स्थानं जग्मतुः श्रीविजयामिततेजसौ ॥ ३२ ॥ देवपूजागुरूपास्तितपःप्रभृतिकर्मभिः।। द्योतयन्ती श्रावकत्वं तौ कालमतिनिन्यतः ॥ ३३ ॥ पुण्यात्माऽमिततेजाश्च स प्रासादमकारयत् । पञ्चवर्णवररत्ननिर्मितं जिनमन्दिरम् ॥ ३४ ॥ - अन्यदा तत्समीपेऽसौ कारिते पौषधालये। . (१) घण - स प्रासादान्तरकारयत् ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy