SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ५२ श्रीशान्तिनाथचरित्रे राज्ञः स्वयंप्रभा माता भ्राता च विजयाह्वयः । तच्छ्रुत्वा दुःखितौ गाढं यावदेतौ बभूवतुः ॥ ७४ ॥ नभोमार्गेण तत्रैत्य तावदेको नरोऽवदत् । अलं देवि विषादेन शृणु वाक्ती स्वयंप्रमे ॥ ७५ ॥ रथनूपरनाथेन पूजितोऽमिततेजसा । संभिन्न श्रोता मत्तातो नैमित्तिकवरोऽस्ति हि ॥ ७६ ॥ तत्पुत्रोऽहं दीपशिखोऽन्यदोव तु प्रचेलतुः । ज्योतिर्वनं प्रति क्रोडां कर्त्तुं तावदपश्यताम् ॥ ७७ ॥ पुरचमरचचेशाशनिघोषेण भूभुजा । क्रियमाणां गतत्राणां तां सुतारां नृपप्रियाम् ॥ ७८ ॥ इत्यूचतुश्च तं दुष्ट धृष्ट दुखेष्ट पाप रे । अस्मत्स्वामिखसारं त्वमपहृत्य क्व यास्यसि ॥ ७८ ॥ तया च भणितावावां प्रयासेनालमत्र वाम् । गत्वा संबोध्यतां राजा वेतालिन्या विमोहितः ॥ ८० ॥ मर्त्तुकामस्तया सार्द्धं सुतारारूपया ततः । आवाभ्यां बोधितो राजा सा च दुष्टा प्रणाशिता ॥ ८१ ॥ देव्युदन्ते च विज्ञाते सोऽस्ति तत्प्रापणोद्यतः । तदाज्ञयाऽहमागां वस्तत्स्वरूपं च शंसितुम् ॥ ८२ ॥ ततः स्वयंप्रभादेव्या सत्कृतोऽसौ पुनर्ययौ । राज्ञः समीपं राजाऽपि ताभ्यां निन्ये स्वपत्तने ॥ ८३ ॥ ( १ ) ग सः । (२) खस्तदा च तौ ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy