SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रस्तावः । ७ किमत्र युज्यते कर्तुमित्युक्तः सोऽपि चाब्रवीत् । अयं तव भवेद्भर्त्ता तदा सेव्योऽपशङ्गितम् ॥ ५८ ॥ सोचे सिंहं तवाद्यापि चित्ते यद्यस्ति संशयः । ततोऽस्य मन्दिरे गत्वा स्थालादीनि विलोकय ॥ ६ ॥ तद्दिधातुमथो सिंहो धनदत्तगृहं ययौ। सोऽग्रे छात्रमुखात् पुखापायं श्रुत्वाऽऽकुलोऽभवत् ॥ ६१ ॥ पुत्रस्य गौरवोदन्तमाख्यायैतेन बोधितः । दर्शयामास च स्थालादीनि तद्भणितोऽस्य सः ॥ ६२ ॥ वध्वाः स्वरूपकथनेनासाद्य श्रेष्ठिनं ततः । सिंहः पुना राजपुत्राः समीपं समुपाययौ ॥ ६३ ॥ सिंहेनानुमता साऽथ कृत्वा खोवेषमुद्भटम्। . बभूव वल्लभा तस्य मङ्गलस्य महात्मनः ॥ ६४ ॥ ययौ च श्रेष्ठिनो वेश्म तत् युग्मं पार्थिवोऽपि तत् । आकार्य सर्ववृत्तान्तं पृष्ट्वा श्रुत्वा विसिभिये ॥ ६५ ॥ ततस्तत्रैव प्रासादे गत्वा राजाजया पुनः । समं त्रैलोक्य सुन्दU विललास स मङ्गलः ॥ ६६ ॥ सुन्दर्या प्रेषितः सोऽथ सिंहः सबलवाहनः । लावा पुरुषवेषं तं ययौ चम्पापुरौं पुनः ॥ ६७ ॥ अमुना सर्ववृत्तान्ते कथिते जगतीपतिः।। हृष्टोऽभाषिष्ट वत्साया अहो मे मतिकोशलम् ॥ ६८ ॥ 1.1 . (१) संग ङ छ अयं हि तव चेगा। (२) च गवेषय। . . .
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy