SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २५८ श्रीशान्तिनाथचरित्रे इति जल्पन् मनुष्योक्त्या कुतोऽप्येत्य भयद्रुतः । पपात भूपतेः क्रोडे पक्षी पारापताभिधः ॥ ८ ॥ ( युग्मम् ) भयभीतममुं दृष्ट्वा दयालुः स महीपतिः । प्रोचे त्वं भद्र ! मा भैषीः कुतोऽपि मम सन्निधौ ॥ १० ॥ एवमाभाषितो राज्ञा निर्भयः समभूदसौ।। तावत् तत्र समायात: क्रूरः श्येनाऽभिधो हिजः ॥ ११ ॥ सोऽवदत् शृणु राजेन्द्र ! त्वदुत्सङ्गगतोऽस्ति यः । पारापत: स मे भक्ष्यं तं मुञ्च क्षुधितोऽस्माहम् ॥ १२ ॥ जजल्प भूपतिर्भद्र ! ममाऽयं शरणाऽऽगतः । युक्तो नाऽर्पयितुं येन पठन्त्येवं मनीषिणः ॥ १३ ॥ शूरस्य शरणाऽऽयातोऽहेर्मणिश्च सटा हरेः । गृह्यन्ते जीवतां नैतेऽमोषां सत्या उरस्तथा ॥ १४ ॥ परप्राणैः निजप्राणपोषणं पुण्यशोषणम् । तवाऽपि नोचितं स्वर्गवारणं खम्भकारणम् ॥ १५ ॥ छिद्यमानेऽप्येकपिच्छे यथा ते जायते व्यथा । तथाऽन्येषामपि भवेदिदं चित्ते विभावय ॥ १६ ॥ भाविनी ते क्षणं टप्तिः पललेऽप्यस्य भक्षिते । सर्वप्राणविनाशोऽस्येति चित्ते परिभावय ॥ १७ ॥ पञ्चेन्द्रियाणां जीवानां वधं कृत्वा दुराशयाः । गच्छन्ति नरकं जीवा इदं चित्ते विभावय ॥ १८ ॥ श्रूयते जीवहिंसावान् निषादो नरकं गतः । दयाऽऽदिगुणयुक्ता च वानरी त्रिदिवं गता ॥ १८ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy