________________
चतुर्थः प्रस्तावः ।
२४१ वाजिवारणलोहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोया'नामन्तरं महदन्तरम् ॥ ४८ ॥ अथाऽङ्गरक्षकत्वे तं निवेश्य निशि भूपतिः । ... सुष्वाप शयने तस्मिन् रोहकोऽपि महामति: . ४८ ॥ यामिन्याः प्रथमे यामे जातनिद्राचयोऽथ सः । विबोध्य रोहकं स्माऽऽह सुप्तो जागर्ति वा भवान् ? ॥ ५० ॥ सोऽवदद् नैव सुप्तोऽस्मि देव ! चिन्तां करोम्यहम् । अविकालिण्डिकाः को नु करोत्येवंविधा इति ? ॥ ५१ ॥ भूपपृष्टेन तेनैव कृतस्तनिर्णयो यथा । . . वातप्राबल्वतस्तासां जायन्ते तास्तथाविधाः ॥ ५२ ॥ हितीयप्रहरेऽप्येवं पृष्टो राज्ञा जजल्प सः । यथा पिप्पलपर्णानामादिरन्तोऽथवा गुरुः ॥ ५३ ॥ तेनैव निर्णयश्चक्र हावयेतो समाविति । हतीयप्रहर खाडिहलादेहस्य चिन्तनम् ॥ ५४ ॥ निर्णीतमिति तेनैव समत्वं देहपुच्छयोः । .. यावती खेतता तावत् कृष्णत्वमपि तत्तनौ ॥ ५५ ॥ चतुर्थप्रहरे विद्धः कण्ट केन महीभुजा। जगाद रोहको देव ! चिन्ता त्वत्तातजा मम ॥ ५६ ॥
(१) ठ -नां दृश्यते । (२) ख ध न पत्राणां। (३) ङ निर्णीय क्षतं ।