SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रस्तावः । ततः केनाप्युपायेन तत्र गच्छाम्यहं यदि । तत्रान्विष्य मिलित्वा च भवामि सुखभागिनी ॥ १८ ॥ अथान्येद्युरुवाचाम्बां हे मातर्जनको मम । एकवारं यथा वाक्यं शृणोति त्वं तथा कुरु ॥ २० ॥ तां दृष्ट्वाऽनादरपरामन्येद्युः सिंहनामकम् । सामन्तं ज्ञापयामास सा तमर्थं कृताञ्जलिः ॥ २१ ॥ सोऽथ राजकुले गत्वा नृपं नत्वोपविश्य च । इति विज्ञापयामास प्रस्तावे वदतां वरः ॥ २२ ॥ नृनाथ भवता मान्यचरी सम्प्रत्यसम्मता । वराको वर्त्तते कष्टे सेषा' त्रैलोक्यसुन्दरी ॥ २३ ॥ अस्याः संमानदानादि दूरेऽस्वालपनं तथा । वाक्यश्रवणमात्रेण प्रसादोऽद्य विधीयताम् ॥ २४ ॥ पार्थिवोऽप्यश्रुपूर्णाक्षः प्रोचे सिंह पुराभवे । अनया विहितं किञ्चिदभ्याख्यानादि दुष्कृतम् ॥ २५ ॥ तदियं तत्प्रभावेन कलङ्किततनूरभूत् । state प्राप्ता गाढमस्माकमप्यहो ॥ २६ ॥ वाक्यं तदद्य यत्किञ्चिदनयाऽस्ति विवक्षितम् । तद् ब्रवीतु न रुष्टैरप्यात्मीयः परिभूयते ॥ २७ ॥ ततस्तदनुमत्यैत्य तत्र त्रैलोक्यसुन्दरी । उवाच तात मे वेषं कुमारोचितमर्पय ॥ २८ ॥ (१) ख ग घ ङ च छ ऽस्य । (2) ग ङ छ कष्टेनैषा । २३
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy