________________
चतुर्थः प्रस्तावः ।
२२१
श्रेष्ठी वसति यत् तत्र धनप्रवरनामकः ॥ ४७ ॥ जाता धनवतीकुक्षिसम्भवाः तस्य कन्यकाः । सप्तैताः सन्ति चाङ्ग्यिस्तताऽऽद्या धर्मसुन्दरी ॥ ४८ ॥ धनसुन्दर्य थो कामसुन्दरी मुक्तिसुन्दरी। भाग्यसौभाग्यसुन्दा सप्तमी गुणसुन्दरी ॥ ४८ ॥ वरप्राप्तिकते तासां श्रेष्ठिना भक्तिपूर्वकम् । आराध्य सोषितो लम्बोदरो मोदकदानतः ॥ ५० ॥ प्रत्यक्षीभूय सोऽवोचदितः सप्तमवासरे । रात्री सुलग्नवेलायां संयोगे प्रगुणीकृते ॥ ५१ ॥ सुवेषयोषायुगलपृष्ठे यः कश्चिदेष्यति । श्रेष्ठिन् ! तव सुतानां स भविष्यत्युचितो वरः ॥ ५२ ॥ मेयं सप्तमघस्रस्य रात्रिस्तत् तत्र गम्यते । निवासपादपश्चायं नीयते च सहाऽऽत्मना ॥ ५३ ॥ दध्यौ म पुण्यसारोऽथ तदाकर्ण्य मनस्यदः । अहो ! प्रासङ्गिक मेऽपि भावि कौतूहलेक्षणम् ॥ ५४ ॥ कीदृशी वलभी सा पूः कीदृग् लम्बोदरः स च ? । कीदृक्षाः कन्यकाश्चेति सर्व द्रष्टास्मि कौतुकम् ॥ ५५ ॥ विधाय हुंक्वति ताभ्यामुत्क्षिप्तो वटपादपः । उद्याने वलभीपुर्या: गत्वा तस्थी क्षणेन सः ॥ ५६ ॥ विधाय नायिकारूपं चेलतु'दैवते ततः ।
तयोरनुपदं पुण्यसारोऽपि चलति स्म सः ॥ ५७ ॥ (१) ड ततो-।
(२) ङ - कुलदेवते।