SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २१७ चतुर्थः प्रस्तावः । यूयमत्र पुरे मुख्या याचितारः सुतां मम । महिता बन्धुभिश्चैभिस्तद् वाच्यं किमतः परम् ? ॥ ८ ॥ पितुः पाखें स्थिता साऽथ कन्यका 'सहसाऽवदत् । ताताहं पुण्यसारस्य भविष्यामि न गेहिनी ॥ ८ ॥ तस्यास्तद् वचनं श्रुत्वा दध्यावेवं पुरन्दरः । अहो ! मे तनयस्यास्यां व्यर्थः पाणिग्रहाग्रहः ॥ १० ॥ यस्या एवंविधा वाणी कर्कशा शैशवेऽप्यहो ! । भाविनी यौवनोमत्ता सा भर्तुः सुखदा कथम् ? ॥ ११ ॥ उवाच रत्नसारस्तु मुग्धेयं तनया मम । वायावाच्यं न जानाति तदस्या: फल्गु जल्पितम् ॥ १२ ॥ तथाऽहं बोधयिष्यामि श्रेष्ठिन् ! ते तनयो यथा । परिणष्थत्यमुं चैव मया दत्ता त्वसौ ध्रुवम् ॥ १३ ॥ ततः पुरन्दरः श्रेष्ठी गृहमागत्य तत्कथाम् । कथयित्वाऽवदत् पुत्रं वत्स ! सा तव नोचिता ॥ १४ ॥ यतः कुदेहां विगतस्नेहां लज्जाशीलकुलोज्झिताम् । अतिप्रचण्डां दुस्तुण्डां ग्रहिणों परिवर्जयेत् ॥ १५ ॥ प्रत्यूचे पुण्यसारस्तु अमुं परिणयामि चेत् । भवामि तदहं सत्यप्रतिज्ञस्तात ! नान्यथा ॥ १६ ॥ (१) ङ चाबबीदिदम् । नाहं परिणयिष्यामि त्वेनं च श्रेष्ठिनः सुतम् । श्रुत्वा त्वेवंविधा वाणी कर्कशा शैशवेऽम्यहो।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy