________________
( १ )
चतुर्थ:
: प्रस्तावः ।
२०५
अभूवन् पञ्चमे वर्षे शालिपल्यशतान्यथ ।
पुनर्निमन्त्य लोकं तं श्रेष्ठी भोजयति स्म च ॥ ८५ ॥ मार्गयामास तान् पञ्च कणान् ज्येष्ठवधूं ततः । पल्यान्तरात् समानीयाऽर्पयामास सकाऽपि तान् ॥ ८६ ॥ देवगुर्वादिशपथपूर्वं भणितया तया ।
:
तस्य सत्यं समाख्यातं रुष्टः श्रेष्ठी ततोऽवदत् ॥ ८७ ॥ मया समर्पिताः शालिकणा यद्यनयोज्झिताः । रजोभस्मगोमयाऽऽदि त्याज्यं तदनया गृहात् ॥ ८८ ॥ 'पृष्ट्वा शालिकगोदन्तं द्वितीयाऽपि स्नुषाऽमुना । कृता रसवतोमुख्यग्टहव्यापारकारिणौ ॥ ८६ ॥ चक्रे वधू तृतीया च शालिरक्षाविधायिनी । मणिमौक्तिक हेमादिभाण्डागाराधिकारिणी ॥ ८० ॥ शालि free साथ चतुर्थी रोहिणी वधूः । गृहस्य स्वामिनी चक्रे श्रेष्ठिना दीर्घदर्शिना ॥ ८१ ॥ यथायुक्तविधानेन कृत्वैवं सुस्थितं गृहम् । निश्चितं स व्यधात् श्रेष्ठी धर्मव्यापारमन्वहम् ॥ ८२ ॥ श्रेष्ठतुल्यो गुरुर्ज्ञेयः स्रुषातुल्याश्च दीक्षिताः ।
योज्या महाव्रतानां च पञ्चशालिकणोपमाः ॥ ८३ ॥ सङ्घश्चतुर्विधोऽप्यत्र कुलमेलनसन्निभः ।
महाव्रतप्रदानं च तत्समक्षं विधीयते ॥ ८४ ॥
ङ द्वितीयां भक्षितां ज्ञात्वा पाकस्थाने नियोजिता ।
तयां रचितां ज्ञात्वा भाण्डागाराऽधिकारिणीम् ॥ ८६ ॥