SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः । बहुश: कारयित्वाऽहम मून्याम्म्रफलानि चेत् । करोमि बहु लोकस्योपकारं तद् महान् गुणः ॥ २१ ॥ ध्यात्वेत्याज्ञापयामास भूपतिः पुरुषाम् निजान् । वष्यमेतत् शुभस्थाने सहकारो भवेद् यथा ॥ २२ ॥ 'ततस्तैर्विदधे पुभिर्गत्वाऽऽरामे मनोहरे । पाय्यते स्म जलं कृत्वाऽऽलवालं परितोऽस्य हि ॥ २३ ॥ तैव संप्रोषितो राजा पूर्वं तस्याडुरोगमे । प्रत्यहं नवनवर्द्धिकथ कथनाच्च ततः परम् ॥ २४ ॥ क्रमाच्चतवरे तस्मिन् पुष्पिते फलिते सति । यत्नतो रक्षणीयोऽयमिति राजोदिता नराः ॥ २५ ॥ एवं तेषु प्रकुर्वत्सु प्रसुप्तेष्वन्यदा निशि । तस्य दैववशेनैकं पतति स्म फलं भुवि ॥ २६ ॥ तत् प्रभाते महोभर्तुः प्रहृष्टैस्तैः समर्पितम् । देयं पात्त्राय कस्मैचिदिदं चिन्तयति स्म सः ॥ २७ ॥ आकार्य देवशर्माणं चतुर्वेदधरं द्विजम् । अमृताम्म्रफलं तस्मै भक्तिपूर्वं ददौ नृपः ॥ २८ ॥ सोऽप्यात्ममन्दिरे गत्वा पूजयित्वा च देवताम् । तत्फलं भक्षयामास पञ्चत्वं समवाप च ॥ २८ ॥ केनचित् कथितं राज्ञो देवशर्माऽद्य स हिजः । अमृताम्म्रफले तस्मिन् भक्षिते संस्थितः प्रभो ! ॥ ३० ॥ (१) क ख ङट, तैस्तथा । १८
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy