SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः । १८१ सद विलोक्य महीभर्तुरस्माभिः प्रतिपादितम् । तेनापि वध्य प्रादिष्टो द्रोहकारीति रोषतः ॥ ३८ ॥ ततो दयाप्रपवेन मन्त्रिणेत्युदितो नृपः । गुप्तौ तिष्ठत्वसौ तावद् याववाऽऽभरणागमः ॥ ४० ॥ ततः कारागृह क्षिप्तो रजन्याः प्रहरेऽन्तिमे । भता तदारक्षकं च हत्वाऽप्येष विनिर्ययौ ॥ ४१ ॥ विज्ञाय वयमप्यस्य पृष्ठे शीघ्रं प्रधाविताः । एषोऽस्य सरसः प्रत्यासवे गूढवनेऽविशत् ॥ ४२ ॥ सतोऽधुना विनिर्गत्य प्रविष्टः शरणे तव । सदयं मुच्यतां राजापथ्यकारी महामते ! ॥ ४३ ॥ उवाच सार्थवाहोऽपि यद्यप्येवं तथाऽपि भोः । सतां नार्पयितुं युक्तः कदाऽपि शरणाऽऽगतः ॥ ४४ ॥ पारक्षका वदन्ति स्म राजादेशकरा वयम् । सोऽवदत् तर्हि राजानं गत्वा विज्ञापयाम्यहम् ॥ ४५ ॥ एवमस्त्विति तैरते सोऽगात् नृपतिसविधौ। तस्य रवाऽऽवली चैकां महामूल्यामढौकयत् ॥ ४६ ॥ राज्ञा सोऽभाणि सार्थेश ! कुत आगमनं तव । तेनापि कथितस्तस्य वृत्तान्तश्च सविस्तरः ॥ ४७ ॥ इति चोक्तं महाराज ! लब्धमाभरणं यदि । तदसौ मुच्यतां मेऽद्य तस्करः शरणागत: ॥ ४८ ॥ राजा प्रोवाच लब्धेऽपि भूषण वधमहति। । यद्यप्येष तथाऽप्यद्य मुक्तः प्रार्थनया तव ॥ ४८ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy