SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १७२ श्री शान्तिनाथचरित्रे , बुद्ध्या विचारयेद्यस्तु वैद्यवाक्यं पिबत्यसौ । बलपुष्टिकरं चोरं गवादीनां मनोहरम् ॥ ४८ ॥ धर्मे प्रवृत्तिः कर्तव्येति वाक्येऽप्यविचारिते । करोत्यज्ञानतो जीवः प्रवृत्तिं धनुरादिषु ॥ ५० ॥ धर्मे तस्मादहिंसादिलक्षणे जिनभाषिते । विदधीत प्रवृत्तिं भोः ! शिवं सौख्यं यदीच्छथ ॥ ५१ ॥ विचार्य धिया कार्यं कुर्वतामिह देहिनाम् । 'दोषा भवन्त्यमृताम्त्रनिपात्यादिनरेन्द्रवत् ॥ ५२ ॥ पप्रच्छेवमथ सर्वा पत् कौतूहलाकुला । अमृताम्म्रनिपात्यादिनृपाः के भगवन्निमे ॥ ५३ ॥ दोषो जने कथं तेषामविचारितकर्मणाम् । इति सर्वसदःप्रोक्तः क्षेमङ्गरजिनोऽवदत् ॥ ५४ ॥ अस्त्यवन्तिजनपदे प्रसिद्धोज्जयिनी पुरी । नगरी धनदस्येवावतीर्णेह कुतूहलात् ॥ ५५ ॥ जितशत्रुर्महीपालः पालयामास तां पुरीम् । यो वैरिवारनारीणां वैधव्यव्रतदो गुरुः ॥ ५६ ॥ तस्याग्रमहिषी जज्ञे विजयश्रीः सुलोचना । भुञ्जानस्तामिलां चैव राजा राज्यमपालयत् ॥ ५७ ॥ आस्थानमण्डपाssसोनमन्यदा तं महीपतिम् । सुविज्ञातेङ्गिताकारः प्रतीहारो व्यजिज्ञपत् ॥ ५८ ॥ (१) खघ छ झ दोषो भवत्यम् ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy