SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । 'परिवेषितया स्थाले स्वस्थ पारणहेतवे । प्रत्यलाभि तया साधू रसवत्या मनोज्ञया ॥ १ ॥ मुनेः प्रभावतस्तस्य तत्र तद्भक्तिरञ्जितैः । विहितानि सुरैरासन् पञ्च दिव्यानि तत्क्षणात् ॥ २ ॥ स स्वस्थानमगात् साधुस्तद् दृष्ट्वा बलकेशवौ । चिन्तयामासतुः कन्या धन्येयं कृतपुण्यका ॥ ३ ॥ आलोच्य मन्त्रिणा सार्द्धं महानन्देन तौ ततः । कारयामासतुश्चास्याः कृते रम्यं स्वयंवरम् ॥ ४ ॥ एत्य दूतसमाहूताः सर्वेऽपि पृथिवीभुजः । आसीना आसनेषुच्चैः स्वयंवरणमण्डपे || ५ ॥ कन्याऽपि कृतशृङ्गारा सखीवृन्दसमन्विता । वरमालाऽङ्कितकरा यावत् तत्र समागता ॥ ६ ॥ तावद् देवतया पूर्वभवस्वस्रा प्रबोधिता । कृतसङ्केतया तत्राऽऽगतया व्रतहेतवे ॥ ७ ॥ अनुज्ञाप्य नृपान् सर्वान् स्वयम्वरसमागतान् । मुरारिबलभद्राभ्यामनुज्ञाता विशेषतः ॥ ८ ॥ पञ्चकन्याशतैः सार्द्धं प्रतिपद्यानगारताम् । समीपे सुव्रताऽऽर्यायाः सा चचार तपोऽमलम् ॥2॥ (युम्मम्) क्षपकश्रेणिमारूढा क्रमात् संप्राप्तकेवला । प्रतिबोधितभव्यौघा ययौ साऽपि शिवं सती ॥ १० ॥ (१) ग परिवेष्य- । (२) खघ झड, कन्या पञ्चशतैः 1 (३) ञ चकार | १६३
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy