SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ aate: प्रस्तावः । नरसिंहकुमारोऽथ विनिवार्य्यं महीपतिम् । दमनार्थमिभस्यास्य प्राचलत्सेनया सह ॥ २ ॥ दीर्घो नव करान् सप्तोन्नतञ्च त्रींश्च विस्तृतः । दीर्घदन्तकरतुच्छपुच्छो मधुपिशङ्गदृक् ॥ ३ ॥ चत्वारिंशत्समधिकैर्लक्षणानां चतुःशतैः अलङ्कृतः करोन्द्रोऽयं कुमारेण निरीक्षितः ॥ ४ ॥ ( युग्मम् ) अभियानापसरणप्रपातोत्पतनादिभिः । 1 बहुधा खेदयित्वा तं वशमानयति स्म सः ॥ ५ ॥ तस्मिन्त्रैरावणाकारेऽधिरूढं मेनिरे जनाः । कुमारमद्भुत श्रीकं साचादिव शचीपतिम् ॥ ६ ॥ तं गजेन्द्रमथालाने नीत्वा कलयति स्म सः । समुत्तीर्य्य ततस्तस्य स्वयं नीराजनां व्यधात् ॥ ७ ॥ जनकस्य समीपेऽथ स ययौ विनयाञ्चितः । विदधे जनकोऽप्यस्य परिरम्भादिगौरवम् ॥ ८ ॥ दध्यौ च जगतीभारक्षमोऽयमभवत् सुतः । तदेनं भूपतिं कृत्वा युज्यते मेऽनगारता ॥ ८ ॥ ततस्तं मन्त्रिसामन्तपौरलोकस्य संमतम् । स्वपदे स्थापयामास सुमुहर्ते महीपतिः ॥ १० ॥ जयन्धरगुरोः पार्श्वे सोऽथ दीक्षामुपाददे । न्यायेन पालयामास नरसिंहनृपः 'क्षमाम् ॥ ११ ॥ (१) ख घ च ज झ चितिम् । १५.३
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy