________________
हतीयः प्रस्तावः।
१४३ आभाषि भावमधुरैः परिहासमनोहरैः । देशीभाषासगर्भेश्च प्रियालापैः ससंभ्रमम् ॥ २५ ॥ पप्रच्छ साऽथ तत्याखेंऽनन्तवीर्यस्वरूपताम् । . ततोऽपराजितोऽशंसत् तदने तद्गुणानिति ॥ २६ ॥ रूपचातुर्यगाम्भीर्यवौर्यौदार्यादिसद्गुणाः । शक्या ह्यनन्तवीर्यस्य शंसितुं नैकजिह्वया ॥ २७ ॥ (युग्मम्)
किच
कुटिलः सरलाङ्गेन विश्रुतिः श्रुतिशालिना। शेषोऽपि निर्जितो येन क्षमाद बिभ्रता क्षमाम् ॥ २८ ॥ सञ्जातरोमहर्षी तां दृष्ट्वा पुनरभाषत । यद्यस्ति कौतुकं तत्ते दर्शयाम्यधुनैव तम् ॥ २८ ॥ आमेति तकया प्रोक्त तावभूतां वरूपिणी। दृष्ट्वा जगाद सा चाहं युभदाज्ञाकरी खलु ॥ ३० ॥ विष्णुः प्रोवाच यद्येवमेहि यामो निजां पुरीम् । जजल्प सा च मत्तातो विधाता वां पराभवम् ॥ ३१ ॥ " भणिता सा ततस्ताभ्यां भेतव्यं न हि सर्वथा । आवयोः समरे नैष पुरः स्थातुं क्षणं क्षमः ॥ ३२ ॥
A
ङ ज ढ ण द पुस्तकेषु भूयान् पाठभेद एषः
भणिता सा ततस्ताभ्यां भेतव्यं सुध ! न त्वया। आवां त्वज्जनकं जेतुं शक्नौ सबलवाहनम् ॥ ३२ ॥