SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ श्रीः प्रस्तावना. ( पूर्वलिखिताङ्ग्लभाषायाः सारांशः मुद्रित्वा लोके प्रकाशमायातमिदं पार्श्वाभ्युदयनामकं जैनकाव्यं साहित्यसुधातरङ्गिणीतरङ्गतीर्यमाणानां विदुषां प्रीतिकरं भविष्यतीत्याशास्महे वयम् 1 राष्ट्रकूटनामराजधान्यां प्राथमिकस्य श्रीअमोघवर्षनरपतेः राज्यशासनसमये प्रख्यातमहाकविश्रीजिनसेनाचार्येण विरचितमिदं काव्यमिति स्पष्टी - भवत्यस्य काव्यस्यान्तिमेन श्लोकेन - इति विरचितमेतत्काव्यमावेष्टय मेघं बहुगुणमपदोषं कालिदासस्य काव्यम् । मलिनितपरकाव्यं तिष्ठतादाशशाङ्कं भुवनमवतु देवः सर्वदाऽमोघवर्षः ॥ १ ॥ श्रीवीरसेन मुनिपादपयोजभृङ्गः श्रीमानभूद्विनयसेनमुनिर्गरीयान् । तच्चोदितेन जिनसेनमुनीश्वरेण काव्यं व्यधायि परिवेष्टितमेघदूतम् ॥ २ ॥ महामुनिः श्रीवीरसेनो विनयसेनजिनसेननाम्नोर्मुनिपुङ्गवयोर्गुरुरासीत् । श्रीविनयसेनप्रार्थनया श्रीजिनसेनाचार्यः कालिदासकृतं समयं मेघदूतं समस्यापूरणद्वारेणावेष्ट्य ( अन्तनीय) पार्श्वभ्युदयमरीरचत् । प्रत्येक श्लोकेन मेघदूतस्य क्रमेण श्लोकचतुर्थांशं श्लोका वा समस्यारूपेणादायाऽवशिष्टपादास्वयं निर्ममौ ग्रन्थकारः । जिनसेनोऽमोघवर्षमहाराजस्य गुरुरित्येतग्रन्थस्य प्रत्येकाङ्कसमाप्तावुल्लिखितम् । अयममोघवर्षनामा भूपती राष्ट्रकूटनानि वंशे समजनि । अयं पृथिवीपालः कर्णाटमहाराष्ट्र देशयोः पृथिवीं बुभुजे । षट्रिंशदधिकसप्तशततमे शकाब्दे ( ७३६) राज्यविष्टरमारुह्य नवनवत्यधिकसप्तशततमशकाब्दपर्यन्तं ( ७९९ ) भूमिमन्वशासत भूमिपतिरेषः । अस्य राजधानी मलखेडेतिख्याते माण्यखेटपुरे बभूव । अयं नरवरो विद्यां बहूत्तेजयामास । अनेन भूभुजा अलङ्कारविषयकः कविराजमार्गनामा ग्रन्थः पुरा
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy