________________
७२
पार्श्वाभ्युदयकाव्यं
पुष्पामोदैरविरलममी सम्पतन्तो वनान्ते बद्धौत्सुक्यात्सरसविदलत्कन्दलैश्चानुकुञ्जम् ।
दग्धारण्य स्थलपरिमलैश्वानुकृष्टा यथास्वं सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ ८४ ॥ २१ ॥
पुष्पामोदैरिति ।। पुष्पाणामामोदैः परिमलैः । “ आमोदः सोतिनिर्हारी " इत्यमरः । सरसविदलत्कन्दलैश्च सरसैः विदलद्भिः कन्दलैरङ्कुरविशेषैः । “ कन्दलीवृक्षमदयोः कन्दलस्तु नवाङ्कुरे इति नानार्थमालायाम् । दग्धारण्यस्थलपरिमलैः दग्धकाननप्रदेशगन्धैश्च । यथास्वं यथास्वरूपम् । अनुकृष्टाः आकृष्टाः । बद्धौत्सुक्यात् संबद्धलाम्पट्ट्यात् । वनान्ते वनमध्ये । " अन्तोऽस्त्री निश्वये नाशे स्वरूपेऽग्रेऽन्तिकेन्तरे " इति भास्करः । अनुकुखं कुञ्जाननु अनुकुञ्जमूतेषु दैर्ष्यानुः " इति समासः । सप्तम्याः " इति वाम् ।
I
"C
66
"" इत्यमरः । सम्पतन्तः
अविरलं निबिडम् । " पेलवं विरलं तनु गच्छन्तः । अमी सारङ्गाः मातङ्गाः कुरङ्गा वा । " सारङ्गश्चात के भृङ्गे कुरङ्गे च मतङ्गजे " इति विश्वः । जललवमुचः जलस्य लवान् कणान् मुञ्चतीति जललवमुक् तस्य । ते तव । मार्ग पदवीम् । सूचयिष्यन्ति द्योतयिष्यन्ति । यत्रयत्र वृष्टिकार्य नीपकुसुमादिकं तत्रतत्र वृष्टिरिति वृष्टिविद्भिरनुमीयत इति तात्पर्यम् ॥ ८४ ॥
गंम्भीरत्वं यदिदमधुना लक्ष्यते ध्यानहेतोः संक्षोभाणां विरचनशतैरप्येदृश्यं मदीयैः । तद्दृष्ट्वाऽहं तव घनतया मान्द्यमेवातिधैर्यादुत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः ॥ ८५ ॥
53
१ विकारजनकहेतुसद्भावेप्यविचलत्वं गांभीर्यं । २ न कस्यापि दर्शनाविषयं लोकोत्तरमिति यावत् ।