SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ६० पार्श्वाभ्युदयकाव्यं प्राप्ते आश्रिते सति । यः पुनः यः कश्चन । विमुखो भवति किम् पराड्युखो न भवत्येवेत्यर्थः ॥ ६८ ॥ . सेव्यः सोऽद्रिः खचरवनिताध्यासितोदग्रशृङ्ग स्त्वां विश्रान्त्यै त्वरयति पुरा रम्यसानुप्रदेशः । सिंद्धोपास्यः कुसुमितलतावीरुधां सन्निवेश्यः छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैः ॥ ६९ ॥ सेव्य इति ।। खचरवनिताध्यासितोदग्रशृङ्गः विद्याधरस्त्रीभिरधिष्ठितमुन्नतशिखरं यस्य सः । रम्यसानुप्रदेश: रम्यः सानूनां प्रदेशो यस्य सः । सिद्धोपास्यः सिद्धदेवैराराध्यः । कुसुमितलतावीरुधां पुष्पित लतागुल्मानाम् । द्राक्षादयो लताभेदाः । वृन्ताकादयो गुल्मभेदा इति यावत् । सन्निवेश्यः आश्रयणीयः । परिणतफलद्योतिभिः परिणतैः परिपक्कैः फलैः द्योतन्त इति द्योतिनस्तैः । आषाढे च वनचूताः फलन्ति पच्यन्ते च मेघवातेनेत्याशयः । काननाम्रैः वनचूतैः । छन्नोपान्तः समावृतपार्श्वः । सेव्यः सेवितुं योग्यः । सोद्रिः आम्रकूटाचलः । पुरा अग्रतः । " निकटागामिके 55 पुरा इत्यमरः । विश्रान्त्यै विश्रमणाय । त्वां भवन्तम् । त्वरयति सम्भ्रमयति ॥ ६९॥ कृष्णाहिः किं वलयिततनुर्मध्यमस्याधिशेते 1 किं वा नीलोत्पलविरचितं शेखरं भूभृतः स्यात् । इत्याशङ्कां जनयति पुरा मुग्धविद्याधरीणां त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे ॥ ७० ॥ कृष्णाहिरिति ॥ स्निग्धवेणीसवर्णे मसृणकेशबन्धनसच्छाये । श्यामवर्ण इत्यर्थः । "वेणी तु केशबन्धने । जलसृतौ” इति यादवः । १ स्वर्लोकातिशायित्वात् स्वावासमपि मुक्त्वा विहरणायागतैस्सिद्धदेवैराश्र यिष्यमाण इत्यर्थः ।
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy