SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ सटीकम् । ५५ "" 66 आस्तामिति । यया कथया स्वः स्वर्गः " स्वर्गे परे च लोके स्वः इत्यमरः । अयै सम्पद्यं भवति सा प्रहरणकथा प्रघातोक्तिः । अथ वा । प्रहरणकथा आयुधवार्ता | आयुधं तु प्रहरणम् ” इत्यमरः । तावदास्तां तदा तिष्ठतु । तव ते । अयं दृश्यमानः । स्वर्जः स्वर स्वर्गे जायते इति तथोक्तः । स्वर्गप्रापक इत्यर्थः । मार्गः पन्थाः भवति । जीमूतत्वं मेघस्वरूपम् । दधत् वहन् । कृषेईलकर्मणः फलं सस्यम् । त्वयि भवति । अधिकरणविवक्षायां सप्तमी । आयत्तं “अधीनो निघ्न आयत्तः" इत्यमरः । इति अस्मात् हेतोः । " इति हेतुप्रकरणप्रकाशादिसमाप्तिषु ” इत्यमरः । क्षेत्रिणां कृषीव - लानाम् । भ्रूविकारानभिज्ञैः भ्रूविकाराणां भ्रुवोर्विलासानाम् अनभिज्ञैः प्रज्ञाविकलैः । पामरत्वादिति यावत् । दृष्टिपातैः दृग्व्यापारैः । अनुगतः अनुयातः सन् । अमुष्मात् प्रदेशात् एतत्स्थानात् । प्राक् पूर्वम् । वियत् व्योम | अभिपतेः अभिगच्छेः ॥ ६१ ॥ विद्युन्मालाकृतपरिकरो भास्वदिन्द्रायुधश्री रुद्यन्मन्द्रस्तनितसुभगः स्निग्धनीलाञ्जनाभः । शीघ्रं यायाः कृतकजलद त्वत्पयोबिन्दुपातप्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ॥ ६२ ॥ 1 ” “ विद्युन्मालेति ।। कृतकजलद भो विकल्पितमेघ । त्वां विद्युन्मालाकृतपरिकरः सौदामिनीभिः कृतपरिवारः । " तडित्सौदामिनीविद्युतू " " परिकरः पर्यङ्कपरिवारयोः " इत्युभयत्राप्यमरः । भास्वदिन्द्रायुधश्रीः भास्वन्ती इन्द्रायुधस्य श्रीर्यस्य सः । इन्द्रायुधं शक्रधनुः " उद्यन्मन्द्रस्तनितसुभगः मन्द्रं च तत्स्तनितं च उद्यद्भवच्च तत् मन्द्रस्तनितं च तेन सुभगः रुचिरः । स्निग्धनीलाञ्जनाभः स्निग्धं ፡፡ १ ‘पत्लृ गतौ' विधिलिङ् प्रहरणस्य दुस्सहत्वे मेघरूपं कृत्वा वा पलायनं कुर्विति भावः ॥
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy