________________
२४४
पार्श्वाभ्युदयकाव्यं
मे मम । दृष्टिः चक्षुः । आलुप्यते किल आत्रियते किल । ततो दृष्टिप्रतिबन्धात्त्वद्रूपदर्शनं प्रतिबध्यत इति भावः ॥ ३४ ॥
तीव्रावस्थे तपति मदने पुष्णबाणैर्मदंगं तल्पेऽनल्पं दहति च मुहुः पुष्पभेदैः प्रक्लृप्ते । तीव्रापायत्वदुपगमनं स्वप्नमात्रेपि नापं
क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतांतः॥३५॥४५॥४२॥
तत्रेति ॥ तीव्रावस्थे तीव्रावस्थायुक्ते । मदने मन्मथे । मदङ्ग मम शरीरम् । पुष्पबाणैः कुसुमशरैः । तपति सन्त पुष्पभेदैः कुसुमच्छेदैः । प्रक्लृप्ते रचिते । तल्पे शयनतले । मुहुः शश्वत् । अनल्पं बहुलं यथा तथा । दहति च प्रतपति सति । तीव्रापाया तीव्रः अपायो यस्याः सा तथोक्ता सती । स्वप्नमात्रे स्वप्ने एव स्वप्नमात्रं तस्मिन्नपि । जाग्रदवस्थायां तु न चेदपीति शेषः । त्वदुपगमनं तव सङ्गमम् । नापं नागमम् । “ आप्त व्याप्तौ ” इति धातोर्लुङि 'सर्त्तिशास्ति ' इत्यादिना लङ् । क्रूरो धातुकः । नृशंसो घातुकः क्रूरः ” इत्यमरः । कृतान्तो दैवम् । “ कृतान्तो यमसिद्धान्तदैवा - कुशलकर्मसु " इत्यमरः । तस्मिन्नपि स्वप्नमात्रेऽपि । नौ आवयोः । “ वाम्नावौ द्वित्वे ” इत्यस्मदो नावादेशः । सङ्गमं संयोगम् । न सहते न मर्षति । स्वप्नसङ्गतिरप्यावयोरसहमानं दैवं साक्षात् सङ्गतिं न सहत एवेति अपिशब्दार्थः ॥ ३५ ॥ इतः पूर्वार्धपादवेष्टितपश्चार्धवेष्टितानि
66
1
मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो
रुत्तिष्ठासुं त्वदुपगमनप्रत्ययात्स्वप्नजातात् । सख्यो दृष्ट्वा सकरुणमृदुव्यावहासिं दधानाः कामोन्मुग्धाः स्मरयितुमहो संश्रयंते विबुद्धां ॥३६॥