SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ सटीकम् । ११ " प्रेम "" स्नेहः सन् ॥ स्नेहोद्रेकात् स्नेहस्य प्रेम्णः उद्रेकात् प्रादुर्भावात् । इत्यमरः ।। चरणपतितं चरणयोः पादयोः पतितं विनतम् । " पदङ्घ्रिश्वरणोऽस्त्रियाम् " इत्यमरः ॥ वप्रक्रीडापरिणतगजप्रेक्षणीयं वप्रक्रीडा उत्खातकेलयः । “ उत्खातकेलिः शृङ्गाद्यैर्वप्रक्रीडा निगद्यते " इति शब्दार्णवः । तासु परिणतः । " तिर्य्यग्दन्तप्रहारस्तु गजः परिणतो मतः " इति हलायुधः । स चासौ गजश्चेति कर्मधारयः । प्रेक्षितुं योग्यः प्रेक्षणीयः वप्रक्रीडापरिणतगज इव प्रेक्षणीयो दर्शनीयस्तम्। “गौणस्तेन” इति समासः तत्पुरुषः कर्मधारयो वा ।। तं भ्रातरं मरुभूतिं । विरुक्षम् । विनष्टोरूक्षः अप्रेम यथा भवति तथा शब्दप्रद " इत्यादिनाऽव्ययीभावः ॥ रूक्षस्त्वप्रेम्ण्यचिक्कणे ” इत्यमरः । न ददर्श नाऽपश्यत् । विमुखोऽभवदिति तात्पर्यम् ॥ ८ ॥ ८८ "" सोऽसौ जाल्मः कपटहृदयो दैत्यपाशो हताशः स्मृत्वा वैरं मुनिमपघृणो हन्तुकामो निकामम् । क्रोधात्स्फूर्जन्नवजलमुचः कालिमानं दधान स्तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतोः ॥ ९ ॥ "" सोऽसावित्यादि ।। सोऽसौ स एष कमठचरः । सोसावित्युभयप्रयोगो भूतवर्तमानभवेष्वात्म्यैकत्वसाधकः ॥ जाल्मः गुणदोषविचा"" जाल्मोऽसमीक्ष्यकारी स्यात् रशून्यः । इत्यमरः ॥ कपटहृदयः कपटेन युक्तं हृदयं यस्येति बहुव्रीहिः । कुटिलचेताः । दैत्यपाशः निन्द्यदेवः । “ निन्द्ये पाशप् ” इति पाशप्त्यैः ॥ हताशः हता दुष्टा आशा अभिलाषो यस्येति बहुव्रीहिः । आशा तृष्णापि चायता " इत्यमरः।। वैरं प्राग्भवविरोधम् ॥ स्मृत्वा ध्यात्वा ॥ अपघृणः अपगता घृणा यस्य सः । कारुण्यं करुणा घृणा इत्यमरः ॥ क्रोधात् 66 " "" १ त्यः इति प्रत्ययस्य परिभाषा जैनेन्द्रव्याकरणे.
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy