________________
सटीकम् ।
२११ अजस्रम् अनवरतम् । “नित्यानवरताजस्रम् ” इत्यमरः । स्मरन्तीं । ते तव । सखीं प्रियाम् । गुरुतरशुचं गुरुतरा शुक् यस्याः सा तां बहुशोकाम् । निर्विनोदां निर्व्यापाराम् । शङ्के तर्कयामि । " शङ्काभयवितर्कयोः” इति शब्दार्णवे । अहनि दिवा। सख्यालापैः सख्या भाषणैः । सुखविरुतिभिः सुखकथाभिः । स्रग्विनोदैः मालाविनोदैः । तथा अन्यैः विलासैः । व्यापारां पूर्वोक्तचित्रलेखनादिव्यापारसहिताम् । विप्रयोगः विरहः । तथा रानाविव । न पीडयेत् न बाधेत् ॥ ४२ ॥ इतो नवभिः कुलकम्एवं प्रायैस्त्वयि सुभगतां व्यञ्जयद्भिर्यथाथै___ मत्संदेशैः सुखयितुमतः पश्य साध्वीं निशीथे । पर्यस्ताङ्गी कुसुमशयने निस्सुखामाधिरुद्धां
तामुन्निद्रां भवति शयनां सद्मवातायनस्थः ॥४३॥२८॥२५॥ चित्रन्यस्तामिव सवपुष मन्मथीयामवस्था
माधिक्षामां विरहशयने सन्निषण्णैकपार्श्वम् । तापापास्त्यै हृदयनिहितां हारयष्टिं दधानां
प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ॥४४॥ मत्कामिन्या प्रणयरसिकैः सन्निधौ त्वत्प्रियाया
नीता रात्रिः क्षणमिव मया सार्धमिच्छारतैर्या । निद्राद्विडिर्मुहुरुपचितैः पक्ष्मरुद्भिर्गलद्भि___स्तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥४५॥ २९॥२६॥ अन्तस्तापं प्रपिशुनयता स्वं कवोष्णेन भूयो निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीम् ।