SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ सटीकम् । ध्यायंध्यायं त्वदुपगमनं शून्यचिन्तानुकण्ठी भूयोभूयः स्वयमपि कृतां मूर्छनां विस्मरन्ती ॥ ३९ ॥२६॥२३॥ एकान्तरितम् शेषान्मासान् विरहदिवसस्थापितस्यावधेर्वा २०७ जन्मान्यत्वेऽप्यधिगतिमितान्देवभावानुभावात् । विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः स्मृत्यारूढान्स्फुटयितुमिव स्वात्मनो मृत्यु सन्धीन् ४० बुद्ध्यध्यासात्स्वपन इव विस्पष्टभूयं त्वयामा संभोगं वा हृदयरचितारम्भमाखादयन्ती । मूर्छासुप्ता समयमथवा श्वासमाना सखीभिः प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ ४१॥२७॥२४॥ सर्वविरहिणीसाधारणलक्षणानि सम्भावयति - आलोक इति ॥ वा अथवा । “ उपमायां विकल्पे वा " इत्यमरः । त्वत्सम्प्राप्त्यै तव सम्प्राप्तिनिमित्तम् । विहितनियमान् विशिष्टव्रतविशेषान् । “ नियमस्तु स यत्कर्म नित्यम गन्तुसाधनम् ” इत्यमरः । भजन्ती सेवमाना । देवताभ्यः बलिषु नित्यं प्रोषितागमनेषु च देवताराध - नेषु च व्याकुला व्यापृता । वा अथवा । बुद्ध्यारूढं चित्तारूढम् | परिचितं चिराभ्यस्तम् । ज्ञातपूर्व पूर्व ज्ञातं तथोक्तम् । 'क्ता' इति बहुव्रीहौ पूर्व निपातः । विरहतनु विरहेण तनूकृतम् । भावगम्यं ज्ञानज्ञेयम् । तत्कार्यस्यादृष्टतरत्वादस्य भावनैवावगम्यत इत्यर्थः । त्वद्गतं त्वां गतम् । त्वयि विद्यमानमित्यर्थः । मत्सादृश्यं मदाकारसाम्यम् मत्प्रतिकृतिमित्यर्थः । लिखन्ती फलकादौ रचयन्ती । सा वनिता । तव आलोके दर्शने । पुरा पूर्वम् अग्रे वा । “स्यात्प्रबन्धे चिराती
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy