SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ सटीकम् । २०३ तामिति ॥ मे मम । कान्तया भार्यया। शिजवलयसुभगैः शिक्षा भूषणध्वनिः “ भूषणानां तु शिश्जितम्" इत्यमरः । “ भिदादयः कचित्" इत्यङ् । शिजाप्रदानि वलयानि तैः सुभगाः रम्यास्तैः । तालैः करतालैः करतलताडनैः । “ तालः कालक्रियामानम् " इत्यमरः । नर्तितः नाटितः । वः युष्माकम् । सुहृद् सखा । नीलकण्ठो मयूरः । " नीलकण्ठो भुजङ्गमुक्” इत्यमरः । दिवसवि. गमे सायंकाले । यां वासयष्टिम् । अध्यास्ते वासयष्ट्यामध्यास्त इत्यर्थः । “शीस्थासोधेराधारः” इत्याधारे द्वितीया । तां निवासयष्टिम् । कुसुमधनुषः कामस्य । एकां मुख्याम् । वैजयन्तीमिव पताकामिव । मत्वा बुद्ध्वा । कामिन्यः वनिताः । अर्चन्ति पूजयन्ति । प्रबलरुदिता प्रबलदुःखिता। साध्वी सती । " सती साध्वी पतिव्रता" इत्यमरः । सापि प्रियापि । त्वदाप्त्यै तव प्राप्त्यै । अर्चति अपिशब्देन अर्थवशाद्विभक्तिपरिणामः इति न्यायादर्चतीति क्रियाध्याहारः ॥३१॥ प्रीतिस्तस्या मम च युवतेर्निविवेका ततोऽहं जानाम्येनां व्यसनपतितां मद्गृहे तच्चरोहम् । एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षयेथा द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा ॥ ३२॥ प्रीतिरिति । तस्याः युवतेः यौवनस्त्रियः । “यूनस्तित्” इति तित्त्यः । मम च ममापि। प्रीतिः स्नेहः । निर्विवेका निर्विभिन्ना विवेकशून्येति ध्वन्यते । तस्याः मम युवतेश्च । निर्विवेका प्रीतिरिति वा सम्बध्यते । तत् तस्मात् । एनाम् एताम् । अन्वादेशे “ इदमः" इत्येनदादेशः " मद्गृहे मम सदने । व्यसनपतिताम् दुःखेन निपतिताम् । अहं जानामि अहमवैमि । अहं तञ्चरः अहं तस्याः भृत्यः । अतिस्नेहित इति यावत् । भो साधो हे निपुण । “ साधुः समर्थे निपु
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy