SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १७८ पार्श्वाभ्युदयकाव्यं ईशाः समर्थाः । वामनेत्राः कामिन्यः । " कामिनी वामलोचना " इत्यमरः । कल्पवृक्षप्रसूतं पानाङ्गसुरद्रुमसम्भूतम् । रतिफलं रतेः कामकेल्याः फलम् । मधु वृक्षरसम् । आसेवन्ते आहत्यानुभवन्तीत्यर्थः ॥ १११ ॥ गेहेगेहे धनदसचिवैर्यत्र धर्मानुरागा - दिव्यैर्गन्धैः सुरभिकुसुमैः साक्षतैर्धूपदीपैः । सङ्गीताद्यैरपि जिनमहो वर्त्यते पुण्यकामै स्त्वद्गम्भीरध्वनिषु मधुरं पुष्करेष्वाहतेषु ॥ ११२ ॥ ७ ॥ ३॥ गेहेगेहे इति । यत्र यक्षधामनि । गेहेगेहे गृहेगृहे । वीप्सायां द्विः । धर्मानुरागात् सद्धर्मभक्त्या । पुण्यकामैः पुण्याभिलाषिभिः । धनदसचिवैः कुबेरमन्त्रिभिः । दिव्यैः दिवि भवैः स्वर्गस्थैरित्यर्थः । गन्धैः मलयजैः । साक्षतैः अक्षतसहितैः । सुरभिकुसुमैः सुरभियुक्तैः कुसुमैः । धूपदीपैः धूपाश्च दीपाश्च तथोक्तास्तैः । सङ्गीताद्यैरपि सङ्गीतप्रमुखैश्च । त्वद्गम्भीरध्वनिषु । तव गम्भीरध्वनिरिव ध्वनिर्येषां तेषु । पुष्करेषु वाद्यभाण्डमुखेषु । “पुष्करं करिहस्ता वाद्यभाण्डमुखे जले " इत्यमरः । मधुरं श्रुतिशुभगं यथा तथा । आहतेषु प्रहतेषु सत्सु । जिनमहः अर्हत्पूजा । वर्त्यते विधीयते ॥ ११२ ॥ I वासः क्षौमं जिगलिषु शनैर्नूनमादेष्टुकामं यूनां कामप्रसवभवनं हारि नाभेरधस्तात् । काना किमपि विधृतं लक्ष्यते कामिनीनां नीवीबन्धोच्छूसितशिथिलं यत्र बिम्बाधराणाम् ॥ ११३ ॥ वास इति ॥ यत्र कुबेरपुर । बिम्बाधराणां बिम्बमिव अधरः ओष्ठो यासां ताः तासाम् " प्रतिबिम्बे प्रतिकृतौ प्रतिकृत्यां १ शनकैरित्यपि पाठः ।
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy