________________
सटीकम् ।
संसूच्यन्ते बहुतरफलैः कुङ्कुमारक्तशोभैमुक्ताजालैस्तनपरिसरच्छिन्नसूत्रैश्च हारैः ॥ ९५ ॥ ९ ॥३॥
१६७
मन्दाकिन्या इति ॥ यत्र अलकायाम् । मन्दाकिन्याः गङ्गायाः । " मन्दाकिनी वियद्गङ्गा " इत्यमरः । तटवनमनु तीरवनं प्रति । क्रीडतां विहरताम् । दम्पतीनां मिथुनानाम् । पुष्पास्तीर्णाः पुष्पैर्विकीर्णाः । पुलिनरचिताः सिकतानिर्मिताः । सम्भोगदेशाः कामकेलिप्रदेशाः । कुङ्कुमारक्तशोभैः कुङ्कमेन लोहितमनोहरैः । बहुतरफलैः बहुक्रमुकादिफलैः । मुक्ताजालैः मौक्तिकसरैः । शिरोनिवेशितैरिति शेषः । स्तनपरिसरच्छिन्नसूत्रैः स्तनयोः परिसरः प्रदेशस्तत्र छिन्नं सूत्रं येषां तैः । " स्मृतः परिसरो मृत्यौ देवोपान्तप्रदेशयोः " इति विश्वः । स्तनपरिचितच्छिन्नसूत्रैरिति पाठे । स्तनयोः परिचितेनाभ्यासेन छिन्नं सूत्रं येषां तैः । मौक्तिकहारैश्च मुक्ताहारयष्टिभिरपि । संसूच्यन्ते सुष्ठु ज्ञाप्यन्ते ॥ ९५ ॥
।।
गत्यायासाद्गलितकबरीबन्धमुक्तैः सभृङ्गैः
कीर्णैः पुष्पैः कुसुमधनुषो बाणपातायमानैः । लाक्षारागैश्चरणनिहतैरप्यधिक्षोणि यस्यां
नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥९६॥९॥४॥
गत्यायासादिति । यस्याम् अलकायाम् । सवितुः सूर्यस्य । उदये उद्गमे सति । अधिक्षोणि क्षोणिमधिकृत्याधिक्षोणि तस्मिन् भूतले । कामिनीनां स्त्रीणाम् । गत्यायासात् गमनाज्जातश्रमात् । गलितकबरीबन्धमुक्तैः गलितात् शिथिलात् कबरीबन्धात् केशबन्धात् मुक्तानि च्युतानि तैः । " कबरी केशवेशे " इत्यमरः । सभृङ्गैः भृङ्गसहितैः । कुसुमधनुष: कुसुमान्येव धनुर्यस्य तस्य कामस्य । बाणपातायमानैः शरपातसदृशैः। कीर्णैः आस्तीर्णैः । पुष्पैः कुसुमैः । चरणनिहितैः