SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ सटीकम् । १६३ 1 द्रीन् कुलपर्वतान् । तैस्तैर्विशेषैः धर्मैः । त्वां भवन्तम् । तुलयितुम् उपमां कर्तुम् । अलं समर्था भवन्ति ॥ ८८ ॥ इतः पादवेष्टितेष्वेव कतिचित्पद्यानि पल्लटितानि क्रियन्ते – . पङ्कीभूताः श्रमजलकणैराद्रितप्रस्तरान्ता वद्धोत्कण्ठस्तनतटपरामृष्टवर्णा विशीर्णाः । सम्भोगान्ते श्रममुपचितं सूचयन्त्यङ्गरागा यत्र स्त्रीणां प्रियतमभुजोच्वासितालिङ्गितानाम् ॥८९॥७॥१॥ पकीभूता इति ॥ यत्र अलकापुर्याम् । सम्भोगान्ते सुरतावसाने । प्रियतमभुजोच्छासितालिङ्गितानाम् । प्रियतमानां प्राणनाथानां भुजै: उच्छ्रेसितानि श्रान्त्या जलसेकाय वा प्रशिथिलितान्यालिङ्गितानि यासां तासाम् । स्त्रीणां नारीणाम् । श्रमजलकणैः सुरतश्रमजनितजलबिन्दुभिः । पङ्कीभूताः प्रागपङ्का इदानीं पङ्का भवन्ति स्मेति तथोक्ताः । " कर्मकर्तृभ्यां प्रागत्तत्वे च्विः " । " च्वौ चास्यानव्ययस्येः " इतीकारः । आर्द्रितप्रस्तरान्ता: आर्द्रीभूतशय्यावसानाः । बद्धोत्कण्ठस्तनतटपरामृष्टवर्णाः रचितरोमाञ्चितस्तनतटेन संघृष्टवर्णाः । विकीर्णाः शिथिलिताः । अङ्गरागाः अङ्गवेषाः । " समालम्भोंगरागश्च प्रसादनविलेपनम् " इति धनञ्जयः । उपचितं सञ्चितम् । श्रमम् आयासम् । सूचयन्ति प्रकाशयन्ति ॥ ८९ ॥ यस्यामिन्दोरनतिचरतो नातिसान्द्रं पतन्तो गौरीभर्तुर्विरचितजटामौलिभाजो मयूखाः । नेतुं सद्यो विलयममलाः शक्नुयुर्दम्पतीना मङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बः ॥ ९०॥७॥२॥ 1 यस्यामिति ।। यस्याम् अलकायाम् । गौरीभर्तुः ईशानस्य । विरचितजटामौलिभाजः । विरचिता प्रथिता जटैव मौलिस्तं भजतीति
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy