SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १५४ पार्धाभ्युदयकाव्यं तु । क्रीडाशैल इति त्वदुपरि विहरणे त्वं गर्जयसि चेत् तस्याः कालोरग इति भीतिर्भवेत् इति तात्पर्यम् ॥ ७५ ॥ एकान्तरितार्धवेष्टितम्इन्द्राणी चेदुपगतवती जैनगेहानुपातं तस्मिन्निज्यां रचयितुमना देवभत्तया तदास्याः। भङ्गीभत्त्या विरचितवपुस्तम्भितान्तर्जलौघः सोपानत्वं कुरु मणितटारोहणायाग्रचारी ॥ ७६ ॥ ६२ ॥ इन्द्राणीति ॥ तस्मिन् कैलासे । इन्द्राणी शची महादेवी । " वरुणेन्द्रमृडभवशवरुद्रान् ” इत्यान् । “ नृदुग्" इति की। इज्यां जिनेन्द्रपूजाम् । रचयितुमनाः कर्तुमनाः सती । देवभक्त्या अर्हद्भक्त्या । जैनगेहानुपातं चैत्यालयसमीपम् । उपगतवती चेत् आगता चेत् । तदा तत्समये । त्वं भवान् । भङ्गीभत्तया भङ्गीनां पर्वाणां भक्त्या रचनया । विरचितवपुः कल्पितशरीरः सन् । “भक्तिनिषेवणे भागे रचनायाम् ” इति शब्दार्णवे । स्तम्भितान्तर्जलौ“घः स्तम्भितो घनीभावं गमितोन्तर्जलौघः प्रवाहो यस्य तथाभूतः सन् । मणितटारोहणाय मणीनां तटं तस्यारोहणाय । अग्रचारी पुरोगः सन् । अस्याः इन्द्राण्याः। सोपानत्वं सोपानभावम् । कुरु विधेहि ॥ ७६ ॥ अनन्तरितार्धवेष्टितम्अन्तस्तोयोच्चलनसुभगां भाविनी तामवस्थां मन्वानास्तास्सुनिभृततरं सानुदेशे निषण्णम् । तत्रावश्यं वेलयकुलिशोद्धट्टनोद्गीर्णतोयं नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ॥ ७७ ॥ • १ अग्रयायीत्यपि पाठः । २ वलयानां कुलिशत्वेन रूपणमपि संगच्छते।
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy