SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १५० पार्श्वाभ्युदयकाव्यं माचले । कृतालोकनत्वात् विहितदर्शनत्वात् । असङ्गः सङ्गहीनः । तिर्यगायामशोभी तिर्यगायामेन क्षिप्रवेशार्थ तिरश्वीनदैर्येण शोभत इति तिर्यगायामशोभी सन् । ताच्छील्ये घिनञ् । “ दैर्घ्यमायाम आरोहः” इत्यमरः । तेन मार्गेण । उदीचीं दिशम् उत्तरदिशम् । अनुसरेः अनुगच्छ । गिरेः क्रौवगिरेः । गह्वरात् गुहाद्वारात् । " दरी तु कन्दरो वा स्त्री देवखातबिले गुहा । गह्वरम् ” इत्यमरः । गुरुर्महान् । कृष्णः सर्प इव कालोरंग इव । बलिनियमने बलेः बलिनामविप्रस्य नियमने बन्धने । अभ्युद्यतस्य प्रवृत्तस्य । विष्णोः विष्णुमुनेः । श्यामः कृष्णवर्णः । पाद इव चरण इव । आशु शीघ्रम् । निष्पत निर्गच्छ ॥ ७० ॥ तस्माद्धूमप्रचय इव निःसृत्य शैलस्य रन्ध्रा द्गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसन्धेः । शुभ्वादभ्वस्फटिकघटनाशोभिगण्डोपलस्य कैलासस्य त्रिदशवनितादर्पणस्याऽतिथिः स्याः ॥ ७१ ॥ "" 66 तस्मादिति ॥ शैलस्य क्रौञ्चाचलस्य । तस्मात् रन्ध्रात् तद्विवरात् । धूमप्रचय इव धूमसमूह इव । निःसृत्य निष्क्रम्य । ऊर्द्ध व्योममार्गम् । गत्वा च चलित्वापि । दशमुखभुजोच्छ्रासितप्रस्थसन्धेः दशमुखस्य रावणस्य भुजैरुच्छ्रासिताः विश्लेषिताः प्रस्थानां सानूनाम् “ कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम् इत्यमरः । सन्धयो यस्य तथोक्तस्तस्य । रन्ध्र संश्लेषयोः सन्धिः " इति धनञ्जयः । एतत्कथावतारः पुण्यास्रवे द्रष्टव्यः । शुम्रादभ्रस्फटिक - घटनाशोभिगण्डोपलस्य शुभ्राणां निर्मलानाम् अदभ्राणां स्थूलानां स्फटिकानां घटनया शोभिनो मनोहराः गण्डोपलाः यस्य तथोक्तस्तस्य । अदभ्रं भूरि भूयिष्ठम् ” इति धनञ्जयः । " गण्डशैलास्तु च्युताः स्थूलोपला गिरेः " इत्यमरः । त्रिदशवनितादर्पणस्य त्रिदश 66
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy